Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 128
________________ विंशतिर्विशिकाः ] अष्टादशी केवलज्ञानविंशिका ११७ पश्यन्नुपलक्षणात् सर्वं दृश्यं च जानन्निति भणता केवलज्ञानकेवलदर्शनयोरैक्यमेवोक्तमिति ॥३॥ ननु हलबोलमिवैकमेवार्थं भूतभाविवर्तमानतया पश्यतः प्रतिनियतरूपग्रहणाभावः प्रसज्येतेत्याशङ्कयाह भूअं भूअत्तेणं भव्वं पेएण तह भविस्सं च। पासइ भविस्सभावेण जं इमं नेयमेवं ति॥४॥ अक्षरगमनिका-भूतं भूतत्वेन भव्यमप्येतेन तथा भविष्यच्च भविष्यद्भावेन पश्यति यदिदं ज्ञेयं एवमिति ।।४॥ यथा ज्ञेयं तथाऽसौ केवलज्ञानी पश्यति, तथाहि-भूतम् अतीतं भूतत्वेन अतीतरूपेण, न केवलं भूतमेव भव्यमपि वर्तमानमपि एतेन भव्यत्वेन तथा भविष्यच अनागतं पुनर्भविष्यद्भावेन अनागतत्वेन पश्यति दर्शनविषयं करोति,यद् यस्माद् इदं दर्शनगोचरो भवद् ज्ञेयं सर्वं चराचरं वस्तु एवं भूतभवद्भविष्यद्रूपेणैव इतिशब्दोऽवधारणे । यदुत वर्तमानं कुण्डलं वर्तमानपर्यायेण कुण्डलत्चेन, तदेव भूतपर्यायेण कटकत्वेन तथा भविष्यत्पर्यायेण कङ्कणत्वेन सत् तथैव ज्ञानविषयं दर्शनविषयं च भवत् केन निवारयितुं शक्यम् ? न केनापीति भावः। तस्माद् दूरापास्त एव प्रतिनियतरूपग्रहणाऽभाव इति ।।४।। ननु भूतं भूतत्वेन पश्यतीत्यादि यदुक्तं तत् कथं सङ्गच्छेत ? भूतस्य विनष्टत्वेन भविष्यतश्चानुत्पन्नत्वेनाऽसत्त्वादित्याशङ्कयाह नेयं च विसेसेणं विगमइ केणावि इहरथा नेयं । नेयं ति तओ चित्तं एयमिणं जुत्तिजुत्तं ति॥५॥ अक्षरगमनिका—ज्ञेयं च केनापि विशेषेण विगच्छति, नेतरथैतद् ज्ञेयमिति। ततश्चित्रमेतद् । युक्तियुक्तमिदमिति ।।५।। टीका-ज्ञेयं च घटपटादि वस्तु पुनः केनापि केनचिद् विशेषेण विशिष्टपर्यायेण विगच्छति नश्यति,न नैव इतरथा सर्वथा विशेषसामान्योभयरूपेण नश्यति द्रव्यपर्यायोभयस्वरूपेणेति भावः। अत्र हेतुमाह-एतद् घटपटादि विनष्टमपि कपालादिरूपेण ज्ञेयं ज्ञानगोचरो भवति इति हेतोः। सर्वथा सत्त्वद्रव्यत्वादिनाऽपि विनष्टे कथं ज्ञानगोचरो भवेत् ? भवति च ज्ञानगोचरस्ततः कारणात् चित्रं सामान्यविशेषरूपेण शबलम् एतद् ज्ञेयम् । न चैतत् कपोलकल्पितं किन्तु युक्तियुक्तं युक्त्योपपन्नम्, इदम् ज्ञेयस्स शबलत्वम् । युक्तिश्च लेशतः प्राग् दर्शितैव। इति हेतोः समीचीनमेव यदुक्तं भूतं भूतत्वेन पश्यतीत्यादि सर्वमिति ।।५।। एतदेवाह सागाराणागारं नेयं जं नेयमुभयहा सबं । अणुमाइयं पि नियमा सामनविसेसरूवं तु॥६॥ अक्षरगमनिका-अण्वादिकमपि ज्ञेयं नियमात् सामान्यविशेषरूपं तु यत् सर्वं ज्ञेयं साकाराऽनाकारमुभयथा ॥६॥ टीका-न केवलमाकाशादि ज्ञेयम् अण्वादिकमपि अणुव्यणुकादिकमपि ज्ञेयं ज्ञानगोचरो नियमाद् नियोगेन सामान्यविशेषरूपं तु तथाहि-अणोरणुत्वद्रव्यत्वादिना सामान्यरूपं पृथिव्यादिपर्यायेण तु विशेषरूपमेव यद् यस्मात् सर्व निरवशेषं ज्ञेयं घटपटादि साकाराऽनाकारं साकारं च रक्तशुक्लादिपर्यायेण विशेषरूपम् अनाकारं च घटत्वपटत्वसत्त्वद्रव्यत्वादिना सामान्यरूपमिति उभयथा साकारनिराकाररूपमिति ।।६।। तस्माद् ज्ञेयग्राहकं केवलज्ञानमपि साकारनिराकाररूपमित्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148