Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 132
________________ विंशतिर्विशिकाः ] अष्टादशी केवलज्ञानविंशिका [ १२१ जीवो य ण सव्वगओ ता तद्धम्मो कहं भवइ बाही ?। कह वाऽलोओ धम्माइविरहओ गच्छइ अणंते॥१८॥ अक्षरगमनिका—जीवश्च न सर्वगतस्ततस्तद्धर्मः कथं भवति बहिः ? कथं वाऽनन्तेऽलोके धर्मादिविरहतो गच्छति ? ||१८|| टीका-जीवश्च आत्मा पुनः न नैव सर्वगतः लोकालोकव्यापी स्वभावस्थस्य तस्य लोकाऽसङ्ख्येयभागमात्रेऽवगाहनात् । ततः तस्मात् तद्धर्मः केवलज्ञानलक्षणो जीवधर्मः कथं केन हेतुना भवति वर्तते बहिः स्वात्मप्रदेशक्षेत्रव्यतिरिक्तदेशे? नैव भवतीति भावः। कथं वा केन वा प्रकारेण अनन्ते अन्तविरहिते अलोके केवलाऽऽकाशे धर्मादिविरहतो धर्माधर्मास्तिकायादिविरहेण गमनाभावात् गच्छति याति? नैव गच्छतीत्यर्थः। तस्य ज्ञेयदेशगमने चात्मनो निःस्वभावत्वापत्तेः, गमनादिसद्भावेऽपि अलोकस्यानन्तत्वेन गमनतो ज्ञातुमशक्यत्वादसर्वविषयत्वापत्तेश्च। अयं विशेषः–अनेकान्तवादाऽभ्युपगमे च कथञ्चित् केवलज्ञानस्य परिच्छेद्यपरिच्छेदकभावेन सर्वविषययोगात् सर्वगतत्वमपि न दुर्घटम् । एवमेव ज्ञानज्ञानिनोः कथञ्चिदभेदात् केवलिपरमात्माऽपि केवलज्ञानेन भवत्येव सर्वव्यापकः ||१८|| ततः किमित्याह तम्हा सरूवनिययस्स चेव जीवस्स केवलं धम्मो। आगारो वि य एयस्स साहु तग्गहणपरिणामो॥१६॥ अक्षरगमिनका—तस्मात् स्वरूपनियतस्यैव जीवस्य केवलं धर्मः। आकारोऽपि चैतस्य तद्ग्रहणपरिणामः साधु ।।१६॥ टीका-तस्मात् केवलज्ञानस्य जीवधर्मत्वेन बहिरसत्त्वादलोके च धर्मादिविरहेण गमनाभावात् स्वरूपनियतस्यैव क्षीणघातिकर्मत्वात् स्वरूपस्थस्यैव जीवस्य आत्मनः केवलं केवलज्ञानं धर्मः स्वभावः । आकारोऽपि न केवलं केवलज्ञानं जीवस्य धर्मः किन्तु एतस्य केवलज्ञानस्य तद्ग्रहणपरिणामः तस्य जीवस्य ग्रहणपरिणामो वस्तुविषयकज्ञानपरिणतिलक्षणो गुणधर्म इति यत् प्रागुक्तं तत् साधु समीचीनमेव युक्तियुक्तत्वादिति ।।१६।। अथोपसंहरन् केवलज्ञानस्य फलमाह एयम्मि भवोदग्गाहिकम्मखयओ उ होइ सिद्धत्तं । नीसेससुद्धधम्मासेवणफलमुत्तमं नेयं ॥२०॥ __ इति केवलज्ञानविंशिका अष्टादशी ।। १८|| अक्षरगमनिका—एतस्मिन् भवोपग्राहिकर्मक्षयतस्तु भवति सिद्धत्वम्। निःशेषशुद्धधर्मासेवनफलमुत्तमं ज्ञेयम् ।।२०|| टीका-एतस्मिन् केवलज्ञाने प्रादुर्भूते सति भवोपग्राहिकर्मक्षयतस्तु वेदनीयायुर्नामगोत्रकर्मचतुष्टयक्षयादेव भवति जायते सिद्धत्वम् अजरामरत्वम्। एतच्च सिद्धत्वं निःशेषशुद्धधर्मासेवनफलं निःशेषः अष्टादशसहस्रशीलाङ्गरथलक्षणः शुद्धधर्म आशंसादिदोषरहितश्रुतचारित्रलक्षणस्तस्यासेवनं सर्वात्मनाऽभ्यासस्तस्य फलं कार्यम् उत्तमं श्रेष्ठं ज्ञेयं बोद्धव्यमिति ||२०|| वि. १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148