Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
१२० ]
अष्टादशी केवलज्ञानविंशिका
तह सव्वगयाभासं भणियं सिद्धंतमम्मनाणीहिं । एयसरूवनियत्तं एवमिणं जुज्जइ कह णु ? ॥१५॥
अक्षरगमनिका चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रं कैवलिकज्ञानलाभो लोकालोकं प्रकाशयति ||१४|| तथा सर्वगताभासं भणितं सिद्धान्तमर्मज्ञानिभिरेतत् स्वरूपनियतम् । एवमिदं कथं नु युज्यते ? ||१५||
टीका - ननु श्रूयते, यदुत - स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ १ ॥ तथा च चन्द्रादित्यग्रहाणां शशिरविग्रहाणां प्रभा दीप्तिः प्रकाशयति दीपयति परिमितं सीमितं क्षेत्रं स्वकीयप्रकाश्यक्षेत्रम् । इतः कैवलिकज्ञानलाभः केवलज्ञान्येव केवली तस्येदं कैवलिकं तच्च ज्ञानं कैवलिकज्ञानं तस्य लाभ उत्पत्तिस्तु लोकालोकं पूर्वोक्तस्वरूपं प्रकाशयति दीपयति । तत् कथं युज्यते ? परस्पर विरुद्धत्वादिति भावः || १४ || तथा शङ्कान्तरसमुच्चये, सर्वगताभासं सर्वेषु वस्तुषु गतः प्राप्त आभासः प्रकाशो यस्य तत् केवलज्ञानं भणितं कथितं सिद्धान्तमर्मज्ञानिभिः प्रवचनोपनिषद्विचारचतुरैः । एतत् केवलज्ञानमेव भवद्भिः स्वरूपनियतं स्वात्मप्रदेशपरिमितक्षेत्रस्थं भण्यते । एवं परस्परविरुद्धत्वात् इदम् अनन्तरोक्तं केवलज्ञानस्य प्रकाश्यं परिमितक्षेत्रं लोकालोकं च, तथा स्वरूपनियतत्वं सर्वगतत्वं च कथं केन प्रकारेण नु वितर्के युज्यते घटते ? नैव युज्यत इत्यर्थः || १५ || आचार्यः समाधत्ते
[ विंशतिर्विंशिकाः
आभासो गहणं चिय जम्हा तो किं न जुज्जए इत्थं । चंदप्पभाइणायं तु णायमित्तं मुणेयव्वं ॥ १६ ॥
अक्षरगमनिका — यस्मादाभासो ग्रहणमेव ततः किं न युज्यतेऽत्र ? चन्द्रप्रभादिज्ञातं तु ज्ञातमात्रं मुणितव्यम् ॥ १६ ॥
टीका — यस्मात् कारणाद् आभासः प्रकाशो ग्रहणमेव ज्ञानशक्तिरेव ततः तस्मात् स्वरूपनियतत्वसर्वगतत्वादि किं न युज्यते सङ्गच्छते ? सर्वं युज्यत एवेति भावः अत्र केवलज्ञानविचारे । चन्द्रप्रभादिज्ञातं तु शशिप्रभादिदृष्टान्तं पुनः ज्ञातमात्रम् उपमामात्रमेव मुणितव्यं ज्ञातव्यं, न तु तद्दृष्टान्तावष्टम्भेन केवलज्ञानस्यापि तथास्वरूपम् ||१६|| कथं चन्द्रप्रभादिज्ञातं ज्ञातमात्रमित्याह
Jain Education International
जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो ।
नाणं तु जीवधम्मो ता तं नियओ अयं नियमा ॥ १७ ॥
अक्षरगमनिका—यस्माच्चन्द्रादीनां प्रभा पुद्गलरूपा न तद्धर्मः, ज्ञानं तु जीवधर्मस्ततस्तन्नियतः अयं नियमात् ||१७||
टीका — यस्मात् कारणात् चन्द्रादीनां शशिरविप्रभृतीनां प्रभा दीप्तिः पुद्गलरूपा परमाणुप्रचयलक्षणा चक्षुर्ग्राह्यत्वात् “तमश्छायोद्योतातपश्चेति" वचनप्रामाण्याच्च । तस्माद् न नैव तद्धर्मः चन्द्रादिधर्मः प्रभा, तस्या द्रव्यान्तरत्वात्। अत एव चन्द्रादिकमतिक्रम्याऽन्यत्रापि विषयदेशे सा गच्छन्ती न विरुध्यते । ज्ञानं तु केवलज्ञानादि पुनः जीवधर्म आत्मधर्मः समये परिमितमान आत्मस्थो मतः, तस्य गुणत्वात् तथासंवेदनाच्च । अत एव केवलज्ञानमात्मानमतिरिच्य न गच्छति विषयदेशे किन्तु आत्मस्थमेव लोकालोकं परिच्छिनत्ति । ततः तस्मात् तन्नियतः जीवप्रतिबद्धः अयं केवलज्ञानलक्षणजीवधर्मो नियमाद् नियोगादिति || १७ ॥ किञ्चकेवलज्ञानस्य स्वरूपनियतत्वाऽनभ्युपगमे बाधामाह
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148