Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
१२२ ]
एकोनविंशी सिद्धविभक्तिविंशिका
सिद्धविभक्तिविंशिका
अनन्तरं केवलज्ञानविंशिकामुपसंहरता निःशेषशुद्धधर्मासेवनफलमुत्तमं सिद्धत्वं ज्ञेयमिति यदुक्तं तत्सिद्धत्वप्राप्तानां सिद्धभगवतामत्र विंशिकायां सामान्यतो भेदान् निरूपयितुकाम आह—
सिद्धाणं च विभत्ती तहेगरूवाण वीअतत्तेण । पनरसहा पन्नत्तेह भगवया ओहभेएण ॥१॥
अक्षरगमनिका इह विदिततत्त्वेन भगवता तथैकरूपाणां च सिद्धानां विभक्तिरोधभेदेन पञ्चदशधा
[ विंशतिर्विंशिकाः
प्रज्ञप्ता ॥ १ ॥
टीका- - इह मौनीन्द्रप्रवचने विदिततत्त्वेन आविर्भूत केवलालोकेन ज्ञातजीवाजीवस्वरूपेण भगवता - ऽद्भुतयोगसाम्राज्यस्वामितीर्थकृता यथा निखिल शुद्धधर्मासेतनफलं प्राप्यते तथा तेन प्रकारेण प्राप्तानन्तचतुष्टयलक्षणेन एकरूपाणां चैकं तुल्यं रूपं स्वरूपं येषां ते तथा तेषामेव सिद्धानां सीतं बद्धं कर्म मातं यैस्ते सिद्धास्तेषां विभक्तिः केवलावाप्तेः प्राक् छद्मस्थावस्थाऽपेक्षया भेदलक्षणा ओघभेदेन सामान्यतो विभागेन पञ्चदशधा पञ्चदशप्रकारेण प्रज्ञप्ता निरूपितेति ||१|| अथ भेदानाह-
तित्थाइसिद्धभेया संघे सइ हुंति तित्थसिद्ध त्ति । तदभावे जे सिद्धा अतित्थसिद्धा उ ते नेया ॥२॥ तित्थगरा तस्सिद्धा हुंति तदन्ने अतित्थगरसिद्धा । सगबुद्धा तस्सिद्धा एवं पत्तेयबुद्धा वि॥३॥ इय बुद्धबोहिया विहु इत्थी पुरिसे णपुंसगे चेव । एवं सलिंगगिहि अन्नलिंगसिद्धा मुव्वा ॥४॥ एगाणेगा य तहा तदेगसमयम्मि हुंति तस्सिद्धा । सेठी केवलिभावे सिद्धी एते उ भवभेया ॥ ५ ॥
Jain Education International
अक्षरगमनिका तीर्थादिसिद्धभेदाः— सङ्घे सति भवन्ति तीर्थसिद्धा इति तदभावे ये सिद्धा अतीर्थसिद्धास्तु ते ज्ञेयाः || २ || तीर्थकरास्तत्सिद्धा भवन्ति तदन्येऽतीर्थकरसिद्धाः । स्वयंबुद्धास्तत्सिद्धा एवं प्रत्येकबुद्धा अपि || ३ || एवं बुद्धबोधिता अपि खलु स्त्री पुरुषो नपुंसकश्च । एवं स्वलिङ्गगृह्यन्यलिङ्गसिद्धा मुणितव्याः || ४ || तथैकानेकाश्च तदेकसमये भवन्ति तत्सिद्धाः । श्रेणिकेवलिभावे सिद्धिः । एते तु भवभेदाः || ५ ||
टीका— तीर्थादिसिद्धभेदाः तीर्थसिद्धाऽतीर्थसिद्धप्रभृतिभेदाः पञ्चदश, तथाहि - सङ्घ सङ्घश्च चतुर्विधः साधुसाध्वीप्रभृतिलक्षणः प्रवचनाधारत्वाद् भावतीर्थस्तस्मिन् सति विद्यमाने ये गणधरप्रमुखाः सिद्धा भवन्ति जायन्ते ते तीर्थसिद्धा इति प्रथमो भेदः । तथा तदभावे तीर्थाऽभावे ये मरुदेव्यादयः सिद्धास्ते अतीर्थसिद्धास्तु ज्ञेया बोद्धव्या इति द्वितीयो भेदः ॥ २॥ तथा तीर्थकराः सन्तो ये ऋषभादयः सिद्धास्ते तत्सिद्धाः तीर्थकरसिद्धा भवन्ति सन्तीति तृतीयो भेदः । तथा तदन्ये तीर्थकरेभ्यः अन्ये ये पुण्डरिकादयः सामान्यकेवलिनः सिद्धास्ते अतीर्थकरसिद्धा इति चतुर्थो भेदः । स्वयम् आत्मना बुद्धास्तत्त्वं ज्ञातवन्तः स्वयंबुद्धाः सन्तः
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148