Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 126
________________ विंशतिर्विशिकाः ] सप्तदशी योगविधानविंशिका [ ११५ आठया पूर्णा सा परमात्मदर्शनेच्छा अनालम्बनयोगः परतत्त्वस्याऽदर्शनम् अनुपलम्भं यावत् । परमात्मस्वरूपदर्शने तु केवलज्ञानेनानालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् । __ स्यादेतत्, यदि क्षपकश्रेणीभाविसामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताऽभिहितस्तदा जिनकल्पिकादीनामपि निरालम्बनध्यानाभिधानमसङ्गतं स्यादिति ? मैवं, यद्यपि तत्त्वतः परतत्त्वलक्ष्यवेधाभिमुखतदविसंवादी सामर्थ्ययोग एव निरालम्बनस्तथापि परतत्त्वलक्ष्यवेधप्रगुणतापरिणतिमात्रादक्तिनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेकध्येयाकारपरिणतिशक्तियोगाच्च निरालम्बनमेव ।। अत एवावस्थात्रयभावने रूपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । आस्तामप्रमत्तानां, नैगमनयाभिप्रायेण पुनः अपुनर्बन्धकस्य व्यवहारनयाभिप्रायेण च सम्यग्दृष्टयादेः संसार्यात्मनोऽपि रूपातीतसिद्धगुणभावनप्रवृत्तस्य निरालम्बनध्यानांशः अविरुद्धः प्रतिभाति । अपि चाऽऽस्तां सिद्धपरमात्मनः केवलज्ञानादिगुणविभावनं संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिकं रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दुरपह्नमेव परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात् तस्यैव च मोहनाशकत्वात् । आह च जो जाणइ अरिहंते, दव्वत्त-गुणत्त-पज्जयत्तेहिं । सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं ।। प्रवचनसार : १-८००|| तस्माद् रूपिद्रव्यविषयं ध्यानं सालम्बनं, अरूपिविषयं च निरालम्बनमिति स्थितम् ।।१६।। अथ निरालम्बनयोगस्य फलमाह एयम्मि मोहसागरतरणं सेढी य केवलं चेव। तत्तो अजोगजोगो कमेण परमं च निव्वाणं ॥२०॥ इति योगविधानविंशिका सप्तदशी ||१७|| अक्षरगमनिका- एतस्मिन् मोहसागरतरणं श्रेणिश्च केवलमेव । ततोऽयोगयोगः क्रमेण परमं च निर्वाणम् ।।२०॥ टीका-एतस्मिन निरालम्बनध्याने लब्धे सति मोहसागरतरणं मोहसागरस्य दुरन्तरागादिभावसन्तानसमद्रस्य तरणं पारगमनं भवति। ततश्च श्रेणिः क्षपक श्रेणिनियंढा भवति। एष एव सम्प्रज्ञातसमाधिस्तीर्थान्तरीयैर्गीयते। ततश्च केवलमेव केवलज्ञानमेव भवति। अयं चासम्प्रज्ञातः समाधिः परैर्गीयते । अयं चासम्प्रज्ञातः समाधिद्धिधा-सयोगिकेवलिभावी अयोगिकेवलिभावी च। आद्यो मनोवृत्तीनां विकल्पज्ञानरूपाणामत्यन्तोच्छेदात् सम्पद्यते, अन्त्यश्च परिस्पन्दरूपाणाम्, अयं च केवलज्ञानस्य फलभूतः । एतदेवाह-ततः केवलज्ञानलाभादन पश्चाच्च अयोगयोगः अयोगिगणस्थानभावी वत्तिबीजदाहाऽयोगाख्य समाधिर्भवति, अयं च धर्ममेघः अमृतात्मा भवशत्रुः शिवोदयः सत्त्वानन्द इत्याद्यभिधानैः पतञ्जलिप्रभृतिभिर्गीयते । क्रमेण प्रदर्शितपारम्पर्येण ततोऽयोगयोगात् परमं सर्वोत्कृष्टं फलं निर्वाणम् अजरामरत्वं भवतीति ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148