Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ]
सप्तदशी योगविधानविंशिका
[ ११३
इदं त्वत्र ध्येयम्-विधिप्रवृत्तावपि अनाभोगानादिनाऽविधिदोषः छद्मस्थस्य भवतीति तद्भिया तु तत्त्यागो नैव कार्य:, तादृश्यस्य प्रज्ञापनीयस्याऽविधिदोषस्य निरनुबन्धित्वादिति ||१५|| ननु किमेतावद्गूढार्थगवेषणया ? " महाजनो येन गतः स पन्थाः” इति वचनाद् जीतव्यवहारस्यैवेदानीं बाहुल्येन प्रवृत्तेस्तस्यैव आतीर्थकालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाह—
मुत्तूण लोगसन्नं उडूढूण य साहुसमयसब्भावं । सम्मं पयट्टियव्वं बुहेणमइनिउणबुद्धीए ॥ १६ ॥
अक्षरगमनिका — मुक्त्वा लोकसंज्ञामूवा च साधुसमयसद्भावं सम्यक् प्रवर्तितव्यं बुधेनाऽतिनिपुणबुद्ध्या ||१६||
टीका — मुक्त्वा विहाय लोकसंज्ञां 'लोक एव प्रमाणमित्येवंरूपां शास्त्रनिरपेक्षां मतिम्, ऊद्रवा च शिरोमान्यकृत्वा साधुसमयसद्भावं समीचीनसिद्धान्तरहस्यं सम्यग् यथाविधि प्रवर्तितव्यं चैत्यवन्दनादौ बुधेन पण्डितेन अतिनिपुणबुद्धया अतिशयितसूक्ष्ममत्या । साधुसमयसद्भावश्चायम्
लोकमालम्ब्य कर्तव्यं कृतं बहुभिरेव चेत् ।
तथा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥ एकोऽपि शास्त्रनीत्या यो वर्तते स महाजनः । किमज्ञसार्थै: ? शतमप्यन्धानां नैव पश्यति ॥ यत्संविग्नजनाचीर्णं श्रुतवाक्यैरबाधितम् । तज्जीतं व्यवहाराख्यं पारम्पर्यविशुद्धिमत् ॥ यदाचीर्णमसंविग्नैः श्रुतार्थानवलम्बिभिः । न जीतं व्यवहारस्तदन्धसन्ततिसम्भवम् ॥ आकल्पव्यवहारार्थं श्रुतं न व्यवहारकम् । इति वक्तुरर्हत्तन्त्रे प्रायश्चित्तं प्रदर्शितम् ॥ तस्माच्छ्रुतानुसारेण विध्येकरसिकैर्जनैः । संविग्नजीतमालम्ब्यमित्याज्ञा पारमेश्वरी || इत्यादिः ||१६||
अथेमं प्रसक्तमर्थं संक्षिपन् प्रकृतं च निगमयन्नाह -
Jain Education International
कयमित्थ पसंगेणं ठाणाइसु जत्तसंगयाणं तु । हियमेयं विज्ञेयं सदणुट्ठाणत्तणेण तहा ॥१७॥
अक्षरगमनिका — कृतमत्र प्रसङ्गेन, स्थानादिषु यत्नसङ्गतानां त्वेतद् हितं विज्ञेयं तथा सदनुष्ठान
( ज्ञानसार २३ - ४ )
त्वेन ||१७||
टीका - कृतं पर्याप्तम् अत्र योगविधिनिरूपणे प्रसङ्गेन स्मृतार्थविस्तारेण ! स्थानादिषु पूर्वोक्तयोगभेदेषु यत्नसङ्गतानां तु प्रयलवतामेव एतत् चैत्यवन्दनाद्यनुष्ठानं हितं मोक्षसाधकं विज्ञेयं बोद्धव्यं चैत्यवन्दनादिगतस्थानादियोगस्य मोक्षहेतुत्वे चैत्यवन्दनाद्यनुष्ठानस्यापि मोक्षप्रयोजकत्वादिति भावः । तथा प्रकारान्तरसमुच्चये सदनुष्ठानत्वेन चैत्यवन्दनादेः स्वातन्त्र्येणाऽपि मोक्षहेतुत्वादिति भावः ||१७|| अथ सदनुष्ठानभेदानेव विं. १५
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148