Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
११६] अष्टादशी केवलज्ञानविंशिका
[विंशतिर्विशिकाः अष्टादशी केवलज्ञानविंशिका अनन्तरविंशिकायां निरालम्बनध्यानस्य फलं केवलज्ञानादि निर्दिष्टं तदत्र विंशिकायां केवलज्ञानस्वरूपमेव निरूपयति
केवलनाणमणंतं जीवस्वरूवं तयं निरावरणं।
लोगालोगपगासगमेगविहं निच्चजोइ ति॥१॥ अक्षरगमनिका—निरावरणं जीवस्वरूपं लोकालोकप्रकाशकमनन्तमेकविधं नित्यज्योतिरिति तकं केवलज्ञानम् ।।१।।
___टीका—यत्तदोर्नित्यसम्बन्धाद् यद् निरावरणं ज्ञानावरणीयाद्यावरणविगमाद् जीवस्वरूपं घातिकर्मक्षयोत्थशुद्धात्मस्वरूपं, लोकश्चालोकश्च लोकालोकौ तौ प्रकाशयतीति लोकालोकप्रकाशकं सर्वद्रव्यपर्यायविषयत्वाद् अनन्तं विषयाऽऽनन्त्याद् एकविधं मतिज्ञानादिवत् प्रकारान्तराभावाद् नित्यज्योतिः क्षायिकभावेनाऽऽविर्भावात् शाश्वतप्रकाशम् इति एवंस्वरूपं तकं तत् केवलज्ञानमिति ||१|| ननु केवलज्ञानं केवलदर्शनं चोभयमपि जीवस्वरूपं तर्हि किमिति केवलज्ञानमेव जीवस्वरूपत्वेनोक्तमित्याशङ्कयाह
मणपजवनाणंतो नाणस्स य दंसणस्स य विसेसो।
केवलनाणं पुण दंसणं ति नाणं ति य समाणं॥२॥ अक्षरगमनिका—मनःपर्यवज्ञानान्तो ज्ञानस्य च दर्शनस्य च विशेषः। केवलज्ञानं पुनदर्शनमिति ज्ञानमिति च समानम् ॥२॥
टीका-मनःपर्यवज्ञानान्तो यावन्मतिश्रुतावधिमनःपर्यवज्ञानं तावदेव ज्ञानस्य च विशेषबोधस्य च दर्शनस्य च सामान्यबोधस्य च विशेषो भेदः असर्ववस्तुविषयत्वात् । यावत् छाद्मस्थ्यं तावदेव ज्ञानदर्शनयोर्विशेष इति भावः। कैवल्ये तु निरावरणत्वेन सर्ववस्तुविषयत्वाद् यद् ज्ञानं तदेव दर्शनम् तथा यद् दर्शनं तदेव ज्ञानमित्येतद् द्वयमपि समानम् । एतदेवाह—केवलज्ञानं पुनः स्वोत्पत्त्यनन्तरसमयमुपसर्जनीकृत्य विशेषान् सामान्यसङ्ग्रहपरं भवति तदा दर्शनं केवलदर्शनम् इति एवं व्यपदिश्यते। ततस्तदेव केवलदर्शनं समयानन्तरं पुनरुपसर्जनीकृत्य सामान्यं विशेषग्रहणप्रवणं भवति तदा ज्ञानं केवलज्ञानम् इति एवमभिधीयते। तथा च द्वयमपि निरावरणत्वेन सर्ववस्तुविषयत्वात् समानं तुल्यमिति ।।२।। एतदेव स्पष्टयन्नाह
संभिन्नं पासंतो लोगमलोगं च सबओ नेयं।
तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥३॥ अक्षरगमनिका --पश्यन् सर्वतो संभिन्नं लोकालोकं च भूतं भव्यं भविष्यच्च ज्ञेयं तन्नास्ति यन्न पश्यति ॥३॥
टीका केवलज्ञानी पश्यन् दर्शनगोचरं कुर्वन् सर्वतो द्रव्यक्षेत्रकालभावतः संभिन्नं सम् एकीभावेन द्रव्यपर्यायैर्भिन्नं व्याप्तं परिपूर्णमित्यर्थः, लोकालोकं च पूर्वोक्तस्वरूपं च भूतम् अतीतं भवतीति भव्यं वर्तमानमिति भावः,भविष्यच अनागतं च ज्ञेयं सर्वं चराचरं द्रव्यादि ज्ञानगोचरस्तनास्ति तन्नैव विद्यते यद् द्रव्यादि न पश्यति नैव दर्शनविषयं करोति, अपि तु सर्वं पश्यति। एवं सर्वं त्रैकालिकं ज्ञेयं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148