Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 125
________________ ११४ सप्तदशी योगविधानविंशिका [ विंशतिर्विशिकाः प्ररूपयंश्चरमानुष्ठानभेदे चरमयोगभेदमन्तर्भावयन्नाह एयं च पीइभत्तागमाणुगं तह असंगयाजुत्तं। नेयं चउविहं खलु एसो चरमो हवइ जोगो॥१८॥ अक्षरगमनिका—एतच्च प्रीतिभक्त्यागमानुगं तथाऽसङ्गतायुक्तं चतुर्विधं खलु ज्ञेयम्, एष चरमो योगो भवति ।।१८॥ टीका–एतच सदनुष्ठानं प्रीतिभक्त्यागमाननुगच्छतीति प्रीतिभक्त्यागमानुगं प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचनानुष्ठानं चेति त्रिभेदं तथा प्रकारान्तरे असङ्गतायुक्तम् असङ्गतया युक्तम् असङ्गानुष्ठानम् इत्येवं चतुर्विधं खलु चतुष्प्रकारमेव ज्ञेयं बोद्धव्यम् । एतेषां भेदानां लेशतः स्वरूपं यतिशिक्षाऽधिकारे भणितमेव। एतेषु चानुष्ठानभेदेषु एष समीपतरवृत्तिवाचकत्वात् समीपाभिहिताऽसङ्गानुष्ठानलक्षणः चरमो योगः अनालम्बनयोगो भवति जायते सङ्गत्यागस्यैवाऽनालम्बनलक्षणत्वादिति भावः ।।१८|| अथाऽऽलम्बनभेदप्रदर्शनेनैव निरालम्बनस्वरूपमाह आलंबणं पि एयं रूविमरूवी य इत्थ परमु त्ति। तग्गुणपरिणइस्वो सुहुमोऽणालंबणो नाम ॥१६॥ अक्षरगमनिका-आलम्बनमप्येतदत्र रूपि चारूपी परम इति। तद्गुणपरिणतिरूपः सूक्ष्मः अनालम्बनो नाम ||१६|| टीका-आलम्बनमपि चतुर्थयोगभेदरूपमपि अत्र योगविचारे रूपि समवसरणस्थजिनरूपतत्प्रतिमादिलक्षणम्, चः समुच्चये अरूपी परमः सिद्धात्मा इति एवं द्विविधम् । तद्वणपरिणतिरूपः तस्य सिद्धात्मनो गुणाः केवलज्ञानादयस्तेषां परिणतिरूपः समापत्तिलक्षणः, तथाहि-ध्याता निरालम्बनयोगी, ध्येयं सिद्धात्मकेवलज्ञानादिगुणाः, ध्यानं च सजातीयज्ञानधारा सूक्ष्मः अतीन्द्रियविषयत्वाद् अनालम्बनो नाम योगः अरूप्यालम्बनस्येषदालम्बनत्वेन “अलवणा यवागूः" इत्यत्रेवात्र नञ्पदप्रवृत्तेरविरोधात्। “सुहुमो आलंबणो नाम" त्ति क्वचित्पाठस्तत्रापि सूक्ष्मालम्बनो नामैष योगस्ततोऽनालम्बन एवेति भाव उन्नेयः। उक्तं च चतुर्दशे षोडशके ग्रन्थकृतैव सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः। जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ।।१।। अयं चानालम्बनो योगः शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः। शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ।।यो. दृ. स.॥५॥ इति श्लोकोक्तस्वरूपक्षपकश्रेणीद्वितीयापूर्वकरणभाविक्षायोपशमिकक्षान्त्यादिधर्मसन्न्यासरूपसामर्थ्ययोगतो निःसङ्गानवरतप्रवृत्ता या परतत्त्वदर्शनच्छा तल्लक्षणो मन्तव्यः । आह च सामर्थ्ययोगतो या, तत्र दिदृक्षेत्यसङ्गशक्त्याढ्या । साऽनालम्बनयोगः, प्रोक्तस्तददर्शनं यावत् ।। षोडशक १५.८|| एतद्वृत्ति :-तत्र परतत्त्वे द्रष्टुमिच्छा दिदृक्षा इति एवंस्वरूपा असङ्गशक्त्या निरभिष्वङ्गाविच्छिन्नप्रवृत्त्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148