Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 33
________________ २२ ] चतुर्थी चरमपरिवर्तविंशिका [ विंशतिर्विशिकाः टीका — मोक्षाशयोऽपि मुक्ताविच्छाऽपि, आस्तां त्रिधा शुद्धधर्म इत्यपेरर्थः नान्यत्र नैव द्विचरमादिपरावर्तेषु भवति जायते गुरुभावमलप्रभावेण गुरुर्निबिडः परमार्थतः सहजसज्ज्ञानादिस्वभावमलनाद् भावमलस्तस्य प्रभावेणानुभावेन । यथा दृष्टान्ते गुरुव्याधिविकारे सन्निपातादिमहारोगाऽऽपादितविकृतौ न नैव जातु कदाचिज्जीवः पथ्याशकः स्वास्थ्यप्रदाहारादिभोजी भवति, यदिवा जीवस्य पथ्याशयः पथ्ये रुचिः सम्यक् स्वरसतो न भवतीति || २ || अथ संसारे संसरतामसुमतां कियन्तः परिवर्ता भवन्तीत्याहपरियट्टा उ अनंता हुंति अणाइम्मि इत्थ संसारे । तप्पुग्गलाणमेव य तहा तहा हुंति गहणाओ ॥ ३ ॥ अक्षरगमनिका - परिवर्तास्त्वनन्ता भवन्ति अनादावत्र संसारे तत्पुद्गलानामेव च तथा तथा भवन्ति ग्रहणात् ॥ ३ ॥ टीका - परिवर्ता उक्तस्वरूपपुद्गलपरावर्तास्तुरवधारणे भिन्नक्रमश्च तथाभव्यत्वाक्षिप्ता अनन्ता एव भवन्ति जायन्तेऽतीताद्धाया अनन्तत्वाद् अनादी आदिविरहिते अत्रास्मिन् संसारे चतुर्गतिभ्रमणलक्षणे । कथं भवन्तीत्याह - तत्पुद्गलानामेव कर्मप्रभृतिपरमाणूनामेव चो विशेषे तथा तथा तेन तेन प्रकारेण कार्मणौदारिकादिशरीरेन्द्रियादिरूपेण भवन्ति जायन्ते ग्रहणाद् आदानाद् उपलक्षणान्मोक्षाच्च पुद्गलपरावर्ता अनन्तरोक्तप्रमाणा जायन्त इति || ३ || यथा पुद्गला जीवग्राह्यस्वभावास्तथा जीवोऽपि पुद्गलग्रहणस्वभाव इति प्रदर्शयति तह तग्गेज्झसहावा जह पुग्गलमो हवंति नियमेण । तह तग्गहणसहावो आया य तओ उ परियट्टा ॥४॥ अक्षरगमनिका - तथा तद्ग्राह्यस्वभावा यथा पुद्गला भवन्ति नियमेन तथा तद्ग्रहणस्वभाव आत्मा च ततस्तु परिवर्ताः ॥४ ॥ टीका - तथा समुच्चये तद्ग्राह्यस्वभावाः संसारिजीवग्राह्यस्वभावा यथा येन प्रेकारण पुद्गला उक्तस्वरूपा भवन्ति जायन्ते नियमेनाऽवश्यंतया तथा तेन प्रकारेण तद्ग्रहणस्वभाव पुद्गलग्रहणस्वभाव आत्मा संसारिसत्त्वः चः समुच्चये भवति । ततस्तस्मादेव तुरवधारणे परिवर्ताः पुद्गलपरावर्ता भवन्तीति शेषः ॥ परस्परं ग्रहणग्राहकस्वभावविरहे बन्धादयोऽपि न घटेरन् । तदुक्तं च योगशतकवृत्तौ ते परमाणवोऽनादित एव तथाऽनन्तशः तदात्मग्रहणस्वभावाः, सोऽप्यात्मा एवमेव तद्ग्राहकस्वभाव इत्युभयोस्तत्स्वभावतया घटन्ते तथा बन्धादयः अन्यथा मुक्तानामपि बन्धादिप्रसङ्गः, अतस्तत्स्वभावत्व एवोभयोरपि तद्भावोपपत्तेरिति भावनीयम् ॥ ४ ॥ एवं मुक्तिगमनयोग्यस्य भव्यजीवस्य चरमोपि पुद्गलपरावर्तो युज्यत इत्याहएवं चरमोऽवेसो नीईए जुज्जई इहरहा उ । तत्तस्सहावखयवज्जिओ इमो किं न सव्वो वि ? ॥५॥ अक्षरगमनिका - एवं चरमोऽप्येष नीत्या युज्यत इतरथा तु तत्तत्स्वभावक्षयवर्जितः अयमेव किं न सर्वोऽपि ॥ ५ ॥ टीका— एवमनन्तरोक्तप्रकारेण प्रतिजीवं प्रायः अनन्ताः पुद्गलपरावर्ता भवन्ति अत एव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148