Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 67
________________ नवमी श्रावकधर्मविंशिका नवमी श्रावकधर्मविंशिका अनन्तरविंशिकायां श्रीजिनपूजोपदिष्टा । पूजातो हि मोहनीयक्षयस्ततो विरतिपरिणामस्तद्वान् श्रावकोऽपीति श्रावकधर्मो निरूप्यतेऽत्र विंशिकायाम् । तस्याश्चेयमाद्या गाथाधम्मोवग्गहदाणाइसंगओ सावगो परो होइ । भावेण सुद्धचित्तो निचं जिणवयणसवणरई ॥१॥ ५६ ] अक्षरगमनिका — धर्मोपग्रहदानादिसंगतः परः श्रावको भवति । भावेन शुद्धचित्तो नित्यं जिनवचनश्रवणरतिः ॥ १ ॥ [ विंशतिर्विंशिकाः टीका — धर्मोपग्रहदानादिसंगतः - धर्मोपग्रहो ज्ञानाद्युपष्टम्भस्तदर्थं दानम् आदिपदात् शीलतपःप्रभृतिग्रहस्तेन संगतो युक्तः परः श्रेष्ठः श्रावकः श्रमणोपासको भवति जायते । भावेन निश्चयतः पुनः शुद्धचित्तः तथाविधमोहनीय क्षयोपशमतो मैत्र्यादिभावभावितान्तःकरणस्तथा नित्यं सर्वदा जिनवचनश्रवणरतिः वीतरागवाणी शुश्रूषुर्भवतीति ||१|| अथ श्रावकं लक्षणद्वारेण निरूपयन्नाह मग्गणुसारी सड्डो पन्त्रवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ देसचारिती ॥२॥ अक्षरगमनिका — मार्गानुसारी श्राद्धः प्रज्ञापनीयः क्रियापरो गुणरागी शक्यारम्भसंङ्गतश्च देशचारित्री ||२|| टीका — मार्गानुसारी भावमार्गः सम्यग्दर्शनज्ञानचारित्रलक्षणस्तमनुसरति चारित्रमोहनीयक्षयोपशमात् पुनः किंलक्षणः ? श्राद्धो दर्शनमोहनीयक्षयोपशमाद् जिनोक्तं सर्वं निःशङ्कं सत्यं श्रद्धत्त इति विहितानुष्ठानरुचिर्वा। अत एव प्रज्ञापनीय उपदेशयोग्यो ऋजुप्रकृतिकत्वात्, पुनः कथम्भूतः ? क्रियापरः वीर्यान्तरायकर्मक्षयोपशमात् सामायिकप्रतिक्रमणपौषधोपवासादिविहितानुष्ठानरतः, पुनः कीदृशः ? गुणरागी औदार्यादिगुणदर्शनेऽनुरागी शक्यारम्भसङ्गतश्च निष्फलारम्भवर्जनेन निजशक्तिपरसहायादियोग्यो य आरम्भस्तेन सङ्गतो युक्तः चः समुच्चये देशचारित्री देशतो विरतिधरः श्रावको भवतीति || २ || अथ देशविरतिमेवाह—– पंच य अणुव्वयाई गुणव्वयाई च हुंति तिन्नेव । सिक्खावयाई चउरो सावगधम्मो दुवालसहा ॥३॥ अक्षरगमनिका — पञ्च चाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव शिक्षाव्रतानि चत्वारि । श्रावकधर्मो द्वादशधा ॥ ३ ॥ टीका — पञ्च संख्यया पञ्चैव चोऽवधारणे अणुव्रतानि महाव्रतापेक्षयाऽणूनि लघूनि व्रतानि स्थूलप्राणातिपातविरमणादीनि श्रावकधर्मवृक्षमूलकल्पानि तथा त्रीणि त्रीण्येव चः समुच्चये गुणव्रतानि दिक्परिमाणादीनि अणुव्रतोपकारकाणि तथा चत्वारि चत्वार्येव चोऽवधारणे शिक्षाव्रतानि शिक्षाऽभ्यासश्चारित्रधर्मस्य तदर्थं व्रतानि सामायिकपौषधादीनि धर्ममहाद्रुमशाखास्थानीयानि उत्तरगुणानि भवन्ति जायन्ते श्रावकस्येति श्रावकधर्मो देशविरतिः द्वादशधा मूलोत्तरभेदाद् द्वादशप्रकारोऽवगन्तव्य इति शेषः ॥ ३ ॥ अनन्तरोक्तः श्रावकधर्मो निवृत्तिप्रवृत्तिरूपोऽथ तं परिणामलक्षणमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148