Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
५४ ]
अष्टमी पूजाविधिविंशिका
[विंशतिर्विंशिकाः प्रतिमाप्रकारेषु किञ्चिद्विशेषः अभ्युपगन्तव्यः, तथाविधतारतम्यतस्तासां प्रतिमानां क्रियमाणपूजाभेदेन पूजकोपलब्धेरिति चेत्, न, किञ्चिद्विशेषेण किञ्चिद्भेदः स्वयंगुर्वादिकारितेषु यद्यभ्युपगम्येत तर्हि तेन किञ्चित्किञ्चिद्भेदेन सर्वे निखिलास्ते प्रतिमाप्रकारा विभक्तव्या विभजनीयाः स्युरिति हेतोः संख्यातीता भेदा अभ्युपगन्तव्या आपघेरन्, ततश्चानवस्थेति पूजकोपयोग एवेष्टफलं प्रति हेतुः, न तु प्रतिमाभेदास्तेषामुपचाराङ्गत्वादिति। अथवाऽत्र पूजाविषये उपकाराङ्गात् स्वोपयोगसाधारणानामनुष्ठानानां किञ्चिद्विशेषेणेष्टफला एते सर्वेऽपि स्वयंगुर्वादिकारितप्रतिमापक्षा यतः क्रियाफलरूपं कर्म सर्वं सर्वस्योपयोगानुरूपं न तु किञ्चिद्विशिष्टनिमित्तभावेन नियतं। ततो यस्य कस्यचिद् यत्किञ्चित् निमित्तभावेनोपकारकं तत्तस्य विशिष्टमिति सर्वेऽपि स्वयंगुर्वादिकारितप्रतिमापक्षा विभक्तव्या विभजनीयाः, तथाहि—स्वकृतगुर्वादिकारितप्रतिमाबुद्ध्या भक्तिप्रकर्षजनने सर्वेऽपि पक्षाः सम्यक् । रागद्वेषजनने चाऽसम्यक् । तदुक्तं महामहोपाध्यायैः प्रतिष्ठाषोडशकवृत्तौ
__"एते सर्वेऽपि पक्षाः स्वोपयोगसाधारणानामनुष्ठानानाम् उवयारङ्गत्ति उपकाराङ्गानीति किञ्चिद्विशेषेणेष्टफलाः कर्म हि सर्वं सर्वस्योपयोगसदृशं प्रशस्तं न तु कस्यचित् किञ्चिज्जात्या प्रतिनियतं ततो यस्य यदुपकारकं तस्य तदिष्टमिति स्वकृतस्थापनादिपक्षाः सर्वेऽपि विभक्तव्याः स्वकृतस्थापनादिबुद्ध्या भक्तिविशेषोत्पत्तौ समीचीना ममत्वकलहाद्युत्पत्तौ चासमीचीना इतिभावः । इत्थं च ये गुर्वादिप्रतिष्ठापितत्वं सर्वथाऽनुपयोगीति वदन्ति ये च विधिप्रतिष्ठापितत्व एव निर्भरं कुर्वन्ति तेषामभिप्रायं त एव विदन्तीति कृतमतिविस्तरेण" ||१५|| अथ पूजाफलमाह
एवं कुणमाणाणं एयां दुरियक्खओ इहं जम्मे।
परलोगम्मि य गोरवभोगा परमं च निव्वाणं॥१६॥ अक्षरगमनिका—एवमेनां कुर्वाणानामिह जन्मनि दुरितक्षयः परलोके च गौरवभोगाः परमं च निर्वाणम् ।।१६।।
टीका-एवं प्रणिधानपूर्वम् एनां देवपूजां कुर्वाणानां विधातृणाम् इह अस्मिन् जन्मनि भवे अनन्तरफलरूपेण चित्तप्रसादाद् दुरितक्षयःपापनाशः परलोके प्रेत्य परम्परफलरूपेण पुण्यानुबन्धिपुण्ययोगात् चः पुनरर्थे गौरवभोगा गौरवं गुरुत्वं पूज्यत्वं तेन युक्ता भोगा नरेन्द्रदेवेन्द्रसुखरूपाः परमं च सर्वोत्कृष्टं फलं निर्वाणम् अजरामरत्वमिति ।।१६।। एतदेव दृष्टान्तपुरस्सरमाह
इकं पि उदगबिंदू जह पक्खित्तं महासमुद्दम्मि।
जायइ अक्खयमेयं पूया वि जिणेसु विजेया॥१७॥ अक्षरगमनिका महासमुद्रे प्रक्षिप्त एकोप्युदकबिन्दुर्यथाऽक्षयो जायते एवं जिनेषु पूजापि विज्ञेया॥१७॥
टीका-महासमुद्रे स्वयंभूरमणस्थानीयमहोदधौ प्रक्षिप्तः अतिसृष्ट आस्तां भूरिसङ्ख्याक एकोप्युदकबिन्दुर्जललवो यथा दृष्टान्ते अक्षयः शोषाभावाद् अविनाशी जायते भवति एवम् उपनयार्थे जिनेषु विश्वविधोपकारिषु गुणमहासमुद्रेषु विषयभूतेषु पूजापि सपर्यापि फलापेक्षया पुण्यानुबन्धिपुण्यहेतुत्वाद् अक्षया अनन्तफला मोक्षप्रदा विज्ञेपा समवसेयेति ।।१७।। एतदेव प्रकारान्तरेणाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148