Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 107
________________ ६६] पञ्चदशी आलोचनाविधानविंशिका [विंशतिर्विशिकाः दोषः स्वकीयव्याधिविकारस्तस्य कथनं निवेदनं सुन्दरं शोभनं न नैव भवति जायतेऽकिञ्चित्करत्वात्तस्य, अपि च परं सुवैद्यस्य निपुणभिषजः अग्रे निवेदनं गुणकरं भवति। तथा तद्वद् भावदोषेऽपि चारित्रकायविषयकापराधेऽपि विज्ञेयं बोद्धव्यमिति ॥ ४॥ एतदेवाऽभ्युच्चयति तत्थ सुविज्जो य इमो आरोग्गं जो विहाणओ कुणइ। चरणारुग्गकरो खलु एवमित्थ गुरु वि विडेओ॥५॥ अक्षरगमनिका-तत्र यो विधानत आरोग्यं करोति अयं च सुवैद्यः, एवमत्रापि चरणाऽऽरोग्यकरः खलु गुरुर्विज्ञेयः ।।५।। तत्र व्याधिते यो विधानत आयुर्वेदोक्तविधिना चिकित्साकरणेन आरोग्यम् अनामयं करोति विदधाति स एवायं चशब्दोऽवधारणे सुवैद्यो भिषग्वरः । एवम् अनेन प्रकारेण अत्रापि चारित्रकायविषयकापराधेऽपि प्रायश्चित्तग्रन्थोक्तविधिना प्रायश्चित्तप्रदानेन यो चरणाऽऽरोग्यकरः चारित्रनैर्मल्याऽऽपादकः स एव खलुशब्दोऽवधारणे गुरुः सुगुरुर्योग्यो आलोचनाया विज्ञेयो बोद्धव्य इति ।।५।। अथ सुगुरुस्वरूपमाह जस्स समीवे भावाउरा तहा पाविऊण विहिपुवं । चरणारुग्गं पकरंति सो गुरू सिद्धकम्मुत्थ ॥६॥ अक्षरगमनिका—तथा भावातुरा विधिपूर्वं यस्य समीपे प्राप्य चरणारोग्यं प्रकुर्वन्ति स गुरुरत्र सिद्धकर्मा ।।६।। टीका-यथा विधानत आरोग्यं करोति ससुवैद्यस्तथा तद्वद् भावातुरा मायादिशल्यपीडिता विधिपूर्व छेदसूत्रोक्तविधानपुरस्सरमात्मनिवेदनाद् यस्य गुरोः भावनिर्देशात् प्राकृतत्वेन विभक्तिव्यत्ययाच्च सामीप्यं सान्निध्यं प्राप्य, अथवा यस्य समीपे प्रायश्चित्तं ज्ञानादि वा प्राप्य लब्ध्वा चरणारोग्यं चारित्रनैर्मल्यं प्रकुर्वन्ति प्रकर्षेण विदधति स गुरुराचार्यादिः अत्र भावरोगविषये सिद्धकर्मा निष्णातः स्थिरहस्तः सफलक्रियः इति यावत् ।।६।। कथमेतादृशः सिद्धकर्मा गुरुर्भवतीत्याशङ्कयाह धम्मस्स पभावेण जायइ एयारिसो न सो वि। विज्जो व सिद्धकम्मो जइयव्वं एरिसे विहिणा ॥७॥ अक्षरगमनिका—सिद्धकर्मा वैद्य इव धर्मस्य प्रभावेणैतादृशो जायते न सर्वोऽपि । ईदृशे विधिना यतितव्यम् ।।७।। टीका-सिद्धकर्मा निष्णातो वैद्य इव भिषगिव धर्मस्य श्रुतचारित्रधर्मस्य प्रभावेण गरिम्णा एतादृश ईदृशः स्थिरहस्तो गीतार्थो जायते भवति न नैव सर्वोऽपि निखिलोऽपि यतिवर्गः, अपि तु कश्चिदेव स्वल्पानामेव लघुकर्मित्वाद् भाविभद्रत्वाद् धर्मनिष्ठत्वात्तथोद्यतत्वाच्च । अत ईदृशे धर्मप्रभावेण जातसिद्धकर्मणि गुरौ विधिना छेदग्रन्थोक्तविधानेन यतितव्यम् आलोचनादाने प्रयतितुं युज्यत इति ॥७॥ सिद्धकर्मगुरुमेव विशिनष्टि एसो पुण नियमेणं गीयत्थाइगुणसंजुओ चेव । धम्मकहापक्खेवगविसेसओ होइ उ विसिट्ठो॥८॥ अक्षरगमनिका—एष पुनर्नियमेन गीतार्थादिगुणसंयुक्त एव धर्मकथाप्रक्षेपकविशेषतस्तु भवति विशिष्टः ||८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148