Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
१०२ ]
षोडशी प्रायश्चित्तविंशिका
पावं छिंदइ जम्हा पायच्छित्तं ति भण्णए तम्हा । पाएण वा वि चित्तं सोहयई तेण पच्छित्तं ॥३॥
अक्षरगमनिका — यस्मात् पापं छिनत्ति तस्मात् प्रायश्चित्तं भण्यते । प्रायेण वाऽपि चित्तं शोधयति तेन प्रायश्चित्तमिति ॥ ३॥
टीका - यस्मात् कारणात् पापं दुष्कृतं छिनत्ति कृन्तति तस्मात् कारणात् पापच्छित् तदेव प्राकृतत्वेन प्रायच्छित्तमिति भण्यते कथ्यते । प्रायेण बाहुल्येन वाऽपि विकल्पेऽथवा चित्तं पापमलिनं स्वान्तं शोधयति निर्मलयति तेन हेतुना प्रायश्चित्तमित्युच्यते || ३ || अनन्तरोक्तमेव हेतुपुरस्सरमाहसंकेसणाइभेया चित्तअसुद्धीइ बज्झई पावं ।
तिव्वं चित्तविवागं अवेइ तं चित्तसुद्धीओ ॥४॥
अक्षरगमनिका—चित्ताऽशुद्धया संङ्कलेशनादिभेदात् चित्रविपाकं तीव्रं पापं बध्यते तच्चित्तशुद्धितः
अपैति ॥ ४ ॥
टीका - चित्ताऽशुद्धया स्वान्तमालिन्येन सङ्कुलेशनादिभेदात् सङ्कुलेशनं श्रीजिनाज्ञाविराधनात्मकरागाद्यशुभाऽध्यवसाय आदौ ययोरशुद्धवाक्कायव्यापारयोस्ते तथा तेषां भेदात् तारतम्ययोगाद् यत् चित्रविपाकं विविधनारकादिफललाभं तीव्रं निबिडानुभावं पापम् अशुभकर्म बध्यते क्षीरनीरन्यायेनाऽऽत्मसात्क्रियते तत् पापं प्रतिपक्षभावेन चित्तशुद्धितः श्रीजिनाज्ञानुरूपस्वान्तनैर्मल्यादपैति प्रणश्यति । एवं प्रायश्चित्तं चित्तशुद्ध्या पापं छिनत्तीति || ४ || अथ प्रायश्चित्तविधानमाह
[ विंशतिर्विंशिकाः
किच्चे वि कम्मणि तहा जोगसमत्तीइ भणियमेयं ति । आलोयणाइभेया दसविहमेयं जहा सुत्ते ॥५॥
अक्षरगमनिका - कृत्येऽपि कर्मणि तथा योगसमाप्तौ भणितमेतदिति आलोचनादिभेदाद् दशविधमेतद् यथा सूत्रे ॥ ५ ॥
टीका — आस्तामकृत्ये कृत्येऽपि विहितेऽपि कर्मणि भिक्षाचर्याद्यनुष्ठाने सूक्ष्मातिचारशुद्ध्यर्थं तथा समुच्चये योगसमाप्तौ योगोद्वहनान्ते यदि वा श्रमणस्य सर्वोऽपि प्रतिक्रमणादिव्यापारो योग वे तस्याऽन्तेऽविधिदोषशोधनार्थं भणितं विहितम् एतत् प्रायश्चित्तम् इति हेतोर्विहितानुष्ठानाद् आलोचनादिभेदाद् आलोचनाप्रतिक्रमणप्रभृतिविभागाद् दशविधं दशप्रकारम् एतत् प्रायश्चित्तं यथा येन प्रकारेण सूत्रे श्रीजिनागमेऽस्ति तथा ज्ञेयमिति ॥ ५ ॥ अथाऽऽलोचनादिभेदानाह—
Jain Education International
आलोयणपडिकमणे मीस विवेगे तहा विउस्सग्गे । तवछेयमूल अणवट्टया व पारंचियं चैव ॥६॥
अक्षरगमनिका —— आलोचनं प्रतिक्रमणं मिश्रं विवेकस्तथा व्युत्सर्गस्तपश्छेदो मूलमनवस्थाप्यता च पाराञ्चिकमेव || ६ ॥
टीका— आलोचनमालोचना गुरोः स्वचरितकथनम् । तथा प्राकृतत्वाल्लिङव्यत्यय इति प्रतीपं क्रमणं प्रतिक्रमणमतिचारान्निवृत्य संयमे गमनं मिथ्यादुष्कृतदानमित्यर्थः । तथा मिश्र आलोचनामिथ्या
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148