Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 115
________________ १०४ षोडशी प्रायश्चित्तविंशिका [विंशतिर्विंशिकाः अक्षरगमनिका—कथमपि गृहीतस्याऽनेषणीयस्याऽशनादिकस्य संवरणे प्रायः सन्त्यागस्तु विवेको ज्ञातव्यः ।।१०।। टीका कथमपि अनाभोगादिना गृहीतस्य अवाप्तस्य अनेषणीयस्य अकल्प्यस्य अशनादिकस्य आहारोपध्यादेः संवरणे प्रायश्चित्तपदे प्रायः कादाचित्कभावस्य रागादिरहितत्वादुदर एव परिष्ठापनेन परिहाराद् बाहुल्येन सन्त्यागः सम्यक् पारिष्ठापनिकाविधिना त्यागः अतिसर्ग एव तु शब्दोऽवधारणे एष प्रस्तुतो विवेको ज्ञातव्यो बोद्धव्यः प्रायश्चित्तत्वेनेति ।।१०॥ अथ व्युत्सर्गमाह कुस्सुमिणमाइएसुं विणाऽभिसंधीइ जो अईयारो। तस्स विसुद्धिनिमित्तं काउस्सग्गो विउस्सग्गो॥११॥ अक्षरगमनिका कुस्वप्रादिकेष्वभिसन्धेविना योऽतिचारस्तस्य विशुद्धिनिमित्तं कायोत्सर्गो व्युत्सर्गः ।।११।। टीका-कुस्वप्नादिकेषु सावद्यादिकुत्सितस्वप्नेषु आदिपदाद् उच्चारप्रश्रवणाधुत्सर्गस्य नावा नद्यादेरुत्तारादेश्च ग्रहणम्, तेषु अभिसन्धिं तथादुराशयं विना ऋते प्रमादादिना यः अतिचारः अपराधो जायते तस्यातिचारस्य विशुद्धिनिमित्तं परिमार्जनार्थं कायोत्सर्गश्चेष्टानिरोधलक्षणः अनुष्ठानविशेषो व्युत्सर्गः प्रायश्चित्तमिति ।।११।। अथ तप आह-- पुढवाईणं संघट्टणाइभावेण तह पमायाओ। अइयारसोहणट्ठा पणगाइतवो तवो होइ॥१२॥ अक्षरगमनिका तथा प्रमादात् पृथिव्यादीनां सङ्घट्टनादिभावेनातिचारशोधनार्थं पञ्चकादितपस्तपो भवति ।।१२।। तथाप्रमादाद् विकथादिप्रमादात् पृथिव्यादीनां पृथिव्यप्कायादीनां सङ्घटनादिभावेन सङ्घट्टपरितापादिभवनेन अतिचारशोधनार्थं अपराधशुद्ध्यर्थं पञ्चकादितपो निर्विकृतिकादिषण्मासावसानं तपः प्रायश्चित्तं भवति वर्तत इति ।।१२।। अथ छेदमाह तवसा उ दुद्दमस्सा पायं तह चरणमाणिणो चेव। संकेसविसेसाओ छेओ पणगाइओ तत्थ॥१३॥ अक्षरगमनिका-तपसा तु दुर्दमस्य तथाचरणमानिनश्च प्रायः सङ्क्लेशविशेषात्तत्र पञ्चकादिकश्छेदः ।।१३|| टीका-तपसाऽनन्तरोक्ताऽहोरात्रपञ्चकादिषण्मासाऽवसानेन तपोरूपेण तुशब्दो विशेषार्थः, तपःसुकरत्वाद् दुर्दमस्य दुर्दान्तस्य तथाचरणमानिनश्च कृतापराधमप्यात्मानं सच्चारित्रमिति मन्यमानस्य प्रायो बाहुल्येन सङ्क्लेशविशेषाद् विशिष्टरागादिसङ्क्लिष्टाऽध्यवसायात् तत्र प्रायश्चित्तपदे पञ्चकादिकः अहोरात्रपञ्चकदशकादिकालमानः छेदश्चारित्रपर्यायच्छेदः अवमरानिकत्वेन लघुताऽऽपादनं छेदाभिधानं प्रायश्चित्तमिति ।।१३।। अथ मूलमाह पाणवहाइंमि पाओ भावेणासेवियम्मि सहसा वि। आभोगेणं जइणो पुणो वयारोवणा मूलं ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148