Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 120
________________ विंशतिर्विंशिकाः सप्तदशी योगविधानविंशिका [ १०६ स्थानादियोगपालनमेव ओ प्राकृतत्वादलाक्षणिकः तुरवधारणे प्रवृत्तिः स्थानादिप्रवृत्तिस्वरूपमित्यर्थः ।।५।। तथैव प्रवृत्तिवदेव सर्वत्रोपशमसारम् एतद्बाधकचिन्तारहितम् शुद्धिविशेषेण बाधकचिन्ताऽनुत्थानाद् निरतिचारं पालनं स्थिरत्वं ज्ञेयं बोद्धव्यम् । इदं त्वत्र ध्येयम्-प्रवृत्तिरूपं स्थानादियोगविधानं सातिचारत्वाद् बाधकचिन्तासहितं तदपेक्षया स्थिरत्वं तु तद्रहितमेव भवतीति । अथ सिद्धिमाह - सर्वं स्थानादि स्वस्मिन्नुपशमविशेषादिफलजननद्वारा परार्थसाधकरूपं स्वसान्निध्यस्थानां स्थानादियोगशुद्ध्यभाववतामपि तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसम्पादकं पुनः सिद्धिर्भवति । अत एव सिद्धाऽहिंसादीनां योगिनां सान्निध्ये हिंसादिपापशीला अपि हिंसादिपापं कर्तुं नालम् । इतिः समाप्तौ ॥ ६ ॥ अथेच्छादीनां हेतूनाह एए य चित्तरूवा तहक्खओवसमजोगओ हुति । तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं ॥७॥ अक्षरगमनिका — एते च चित्ररूपास्तस्य तु श्रद्धाप्रीत्यादियोगतो भव्यसत्त्वानां तथाक्षयोपशमयोगतो भवन्ति ||७|| टीका- - एते च इच्छादयः चित्ररूपाः तारतम्ययोगतः स्वस्थानेऽप्यसङ्घयेयभेदभाजो भवन्तीति सम्बन्धः । अत्र हेतुमाह — तस्य स्थानादियोगस्यैव तुरवधारणे श्रद्धाप्रीत्यादियोगतः श्रद्धा इदमित्थमेवेति प्रतिपत्तिः, प्रीतिस्तत्करणादौ हर्षः, आदिपदाद् धृतिधारणादिग्रहस्तद्योगाद् भव्यसत्त्वानां मुक्तिगमनयोग्याऽपुनर्बन्धकादिजीवानां तथाक्षयोपशमयोगतः तत्तत्कार्यजननानुकूलविचित्रक्षयोपशमसम्पत्त्या इच्छादीनामसङ्ख्येयभेदा भवन्ति जायन्ते । इच्छायोगादिविशेषे प्रणिधानप्रवृत्त्याद्याशयभेदाभिव्यङ्ग्यः क्षयोपशमभेदो हेतुरित्यर्थः । अत एव यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसम्पत्त्या मार्गे प्रवर्तमानस्य सूक्ष्मबोधाऽभावेऽपि मार्गानुसारिता न व्याहन्यत इति सम्प्रदायः || ७ | | अथेच्छादीनां कार्यभेदमाह— अणुकंपा निव्वेओ संवेगो होइ तह य पसमुत्ति । एएसिं अणुभावा इच्छाईणं जहासंखं ॥ ८ ॥ अक्षरगमनिका— अनुकम्पा निर्वेदः संवेगस्तथा प्रशमश्चेत्येषामिच्छादीनां यथासङ्ख्यमनुभावा भवन्ति ॥८॥ टीका- - अनुकम्पा दुःखिदुःखच्छेदनेच्छा, निर्वेदो नैर्गुण्यपरिज्ञानाद् भवचारकादुद्वेगः, संवेगो मोक्षतीव्राभिलाषः, तथा प्रकारान्तरे, प्रशमस्तथाविधकषायोपशमः । चः समुच्चये । इति एवमनन्तरोक्ता इमेऽनुकम्पादय एतेषां प्रस्तुतानाम् इच्छादीनाम् इच्छादियोगानां यथासङ्ख्यं क्रमशः अनु पश्चाद् भवति भावा अनुभावाः कार्याणि भवन्ति जायन्ते । यद्यपि सम्यक्त्वस्यैवैते कार्यभूतानि लिङ्गानि प्रवचने प्रसिद्धानि, तथापि योगानुभवसिद्धानां विशिष्टानामेतेषामिहेच्छायोगादिकार्यत्वमभिधीयमानं न विरुध्यत इति द्रष्टव्यम् । वस्तुतः केवलसम्यक्त्वलाभेऽपि व्यवहारेणेच्छादियोगप्रवृत्तेरेवानुकम्पादिभावसिद्धेः । अनुकम्पादिसामान्ये इच्छायोगादिसामान्यस्य तद्विशेषे च तद्विशेषस्य हेतुत्वमित्येव न्यायसिद्धम् । अत एव शमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्यगुणानां पश्चानुपूर्यैव लाभक्रमः, प्राधान्याच्चेत्थमुपन्यास इत्यत्रैव ग्रन्थे सद्धर्मविंशिकायां प्रतिपादितम् ||८|| तदेवमिच्छादिहेतुभेदेनानुकम्पाद्यनुभावभेदेन च स्थानादिभेदविवेचनं कृतम् । तथा च स्थानादावेकैकस्मिन्निच्छादिभेदचतुष्टयसमावेशादेतद्विषया अशीतिर्भेदाः संपन्नाः एतन्निवेदनपुरस्सरमिच्छादिभेदभिन्नानां स्थानादीनां सामान्येन योजनां शिक्षयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148