________________
विंशतिर्विंशिकाः
सप्तदशी योगविधानविंशिका
[ १०६ स्थानादियोगपालनमेव ओ प्राकृतत्वादलाक्षणिकः तुरवधारणे प्रवृत्तिः स्थानादिप्रवृत्तिस्वरूपमित्यर्थः ।।५।। तथैव प्रवृत्तिवदेव सर्वत्रोपशमसारम् एतद्बाधकचिन्तारहितम् शुद्धिविशेषेण बाधकचिन्ताऽनुत्थानाद् निरतिचारं पालनं स्थिरत्वं ज्ञेयं बोद्धव्यम् । इदं त्वत्र ध्येयम्-प्रवृत्तिरूपं स्थानादियोगविधानं सातिचारत्वाद् बाधकचिन्तासहितं तदपेक्षया स्थिरत्वं तु तद्रहितमेव भवतीति । अथ सिद्धिमाह - सर्वं स्थानादि स्वस्मिन्नुपशमविशेषादिफलजननद्वारा परार्थसाधकरूपं स्वसान्निध्यस्थानां स्थानादियोगशुद्ध्यभाववतामपि तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसम्पादकं पुनः सिद्धिर्भवति । अत एव सिद्धाऽहिंसादीनां योगिनां सान्निध्ये हिंसादिपापशीला अपि हिंसादिपापं कर्तुं नालम् । इतिः समाप्तौ ॥ ६ ॥ अथेच्छादीनां हेतूनाह
एए य चित्तरूवा तहक्खओवसमजोगओ हुति । तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं ॥७॥
अक्षरगमनिका — एते च चित्ररूपास्तस्य तु श्रद्धाप्रीत्यादियोगतो भव्यसत्त्वानां तथाक्षयोपशमयोगतो भवन्ति ||७||
टीका- - एते च इच्छादयः चित्ररूपाः तारतम्ययोगतः स्वस्थानेऽप्यसङ्घयेयभेदभाजो भवन्तीति सम्बन्धः । अत्र हेतुमाह — तस्य स्थानादियोगस्यैव तुरवधारणे श्रद्धाप्रीत्यादियोगतः श्रद्धा इदमित्थमेवेति प्रतिपत्तिः, प्रीतिस्तत्करणादौ हर्षः, आदिपदाद् धृतिधारणादिग्रहस्तद्योगाद् भव्यसत्त्वानां मुक्तिगमनयोग्याऽपुनर्बन्धकादिजीवानां तथाक्षयोपशमयोगतः तत्तत्कार्यजननानुकूलविचित्रक्षयोपशमसम्पत्त्या इच्छादीनामसङ्ख्येयभेदा भवन्ति जायन्ते । इच्छायोगादिविशेषे प्रणिधानप्रवृत्त्याद्याशयभेदाभिव्यङ्ग्यः क्षयोपशमभेदो हेतुरित्यर्थः । अत एव यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसम्पत्त्या मार्गे प्रवर्तमानस्य सूक्ष्मबोधाऽभावेऽपि मार्गानुसारिता न व्याहन्यत इति सम्प्रदायः || ७ | | अथेच्छादीनां कार्यभेदमाह— अणुकंपा निव्वेओ संवेगो होइ तह य पसमुत्ति । एएसिं अणुभावा इच्छाईणं जहासंखं ॥ ८ ॥
अक्षरगमनिका— अनुकम्पा निर्वेदः संवेगस्तथा प्रशमश्चेत्येषामिच्छादीनां यथासङ्ख्यमनुभावा
भवन्ति ॥८॥
टीका- - अनुकम्पा दुःखिदुःखच्छेदनेच्छा, निर्वेदो नैर्गुण्यपरिज्ञानाद् भवचारकादुद्वेगः, संवेगो मोक्षतीव्राभिलाषः, तथा प्रकारान्तरे, प्रशमस्तथाविधकषायोपशमः । चः समुच्चये । इति एवमनन्तरोक्ता इमेऽनुकम्पादय एतेषां प्रस्तुतानाम् इच्छादीनाम् इच्छादियोगानां यथासङ्ख्यं क्रमशः अनु पश्चाद् भवति भावा अनुभावाः कार्याणि भवन्ति जायन्ते । यद्यपि सम्यक्त्वस्यैवैते कार्यभूतानि लिङ्गानि प्रवचने प्रसिद्धानि, तथापि योगानुभवसिद्धानां विशिष्टानामेतेषामिहेच्छायोगादिकार्यत्वमभिधीयमानं न विरुध्यत इति द्रष्टव्यम् । वस्तुतः केवलसम्यक्त्वलाभेऽपि व्यवहारेणेच्छादियोगप्रवृत्तेरेवानुकम्पादिभावसिद्धेः । अनुकम्पादिसामान्ये इच्छायोगादिसामान्यस्य तद्विशेषे च तद्विशेषस्य हेतुत्वमित्येव न्यायसिद्धम् । अत एव शमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्यगुणानां पश्चानुपूर्यैव लाभक्रमः, प्राधान्याच्चेत्थमुपन्यास इत्यत्रैव ग्रन्थे सद्धर्मविंशिकायां प्रतिपादितम् ||८|| तदेवमिच्छादिहेतुभेदेनानुकम्पाद्यनुभावभेदेन च स्थानादिभेदविवेचनं कृतम् । तथा च स्थानादावेकैकस्मिन्निच्छादिभेदचतुष्टयसमावेशादेतद्विषया अशीतिर्भेदाः संपन्नाः एतन्निवेदनपुरस्सरमिच्छादिभेदभिन्नानां स्थानादीनां सामान्येन योजनां शिक्षयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org