________________
११०] सप्तदशी योगविधानविंशिका
[विंशतिर्विशिकाः एवं ठियम्मि तत्ते नाएण उ जोयणा इमा पयडा।
चिइवंदणेण णेया नवरं तत्तत्रुणा सम्मं ॥६॥ अक्षरगमनिका—एवं तत्त्वे स्थिते ज्ञातेन तु चैत्यवन्दनेनेयं प्रकटा योजना केवलं तत्त्वज्ञेन सम्यग् ज्ञेया ॥६॥
टीका-एवम् अनन्तरोक्तनीत्याऽशीतिभेदो योगः, सामान्यतस्तु पञ्चभेद इति तत्त्वे योगतत्त्वे स्थिते व्यवस्थिते सति ज्ञातेन तु दृष्टान्तेनैव चैत्यवन्दनेन प्रतीतेन इयम् अनन्तरोक्ता प्रकटा योगक्रियाऽभ्यासिजनप्रत्यक्षा योजना प्रतिनियतविषयव्यवस्थापना नवरं प्राकृतत्वात् केवलं तत्त्वज्ञेन योगविषयकनिष्णातेन सम्यग अवितथं ज्ञेया बोद्धव्येति ||६|| योजनामेवाह
अरहंतचेइयाणं करेमि उस्सग्ग एवमाईयं।
सद्धाजुत्तस्स तहा होइ जहत्थं पयन्नाणं ॥१०॥ अक्षरगमनिका-'अरिहंत चेइयाणं करेमि काउस्सग्गं' एवमादि श्रद्धायुक्तस्य तथा यथार्थं पदज्ञानं भवति ||१०||
टीका- “अरिहंत" इत्यादि “अरिहंत चेइयाणं करेमि काउस्सगं" एवमादिचैत्यवन्दनविषयकं श्रद्धायुक्तस्य अनुष्ठानास्थावतः, तथा तेन प्रकारेणोच्चार्यमाणस्वरसम्पन्मात्रादिशुद्धस्फुटवर्णानुपूर्वीलक्षणेन यथार्थ भ्रान्तिरहितं पदज्ञानम् उच्चार्यमाणपदबोधो भवति जायते, परिशुद्धपदोच्चारे दोषाभावे सति परिशुद्धपदज्ञानस्य श्रावणसामग्रीमात्राऽऽधीनत्वादिति भावः ।।१०।। एतदेव विशेषेणाह
एवं चत्थालंबणजोगवओ पायमविवरीयं तु। _इयरेसिं ठाणाइसु जत्तपराणं परं सेयं ॥११॥ अक्षरगमनिका-एतच्चार्थाऽऽलम्बनयोगवतः प्रायः अविपरीतं तु। इतरेषां स्थानादिषु यलपराणां परं श्रेयः ।।११॥
टीका-एतच पदज्ञानम् अर्थालम्बनयोगवतः अर्थः उपदेशपदप्रसिद्धपदवाक्यमहावाक्यैदम्पर्यार्थपरिशुद्धज्ञानम् आलम्बनं च प्रथमे दण्डकेऽधिकृततीर्थकृद्, द्वितीये सर्वे तीर्थकृतः, तृतीये प्रवचनम्, चतुर्थे सम्यग्दष्टि: शासनाधिष्ठायक इत्यादि. तद्योगवतः तप्रणिधानवतः प्रायो बाहल्येन अविपरीतं त अभीप्सितपरमफलसम्पादकमेव भवति, अर्थालम्बनयोगयोर्ज्ञानयोगतयोपयोगरूपत्वात्। तत्सहितस्य चैत्यवन्दनस्य भावचैत्यवन्दनत्वसिद्धेः, भावचैत्यवन्दनस्य चामृतानुष्ठानत्वेनावश्यं निर्वाणफलत्वादिति भावः। प्रायोग्रहणं च सापाययोगवद्व्यावृत्त्यर्थम् । इतरेषाम् अर्थालम्बनयोगाभाववतां स्थानादिषु प्राकृतत्वात् स्थानवर्णयोश्च यत्नपराणां प्रयलवतामालम्बनयोश्च तीव्राभिलाषवतां परं केवलं श्रेयः कल्याणम् । अर्थालम्बनयोगाभावे वाचनायां पृच्छनायां परावर्तनायां वा तत्पदपरिज्ञानस्यानुप्रेक्षाऽसंवलितत्वेन "अनुपयोगो द्रव्यम्" इति कृत्वा द्रव्यचैत्यवन्दनरूपत्वेऽपि स्थानोर्णयोगयलातिशयादर्थालम्बनस्पृहालुतया च तद्धत्वनुष्ठानरूपतया भावचैत्यवन्दनद्वारा परम्परया स्वफलसाधकत्वादिति भावः ।।११।। स्थानादियलाभावे च तच्चैत्यवन्दनानुष्ठानमप्रधानद्रव्यरूपतामास्कन्दन्निष्फलं वा स्यादिति लेशतोऽपि स्थानादियोगाभाववन्तो नैतत्प्रदानयोग्या इत्युपदिशन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org