________________
विंशतिर्विशिकाः ] सप्तदशी योगविधानविंशिका
[ १११ इहरा उ कायवासियपायं अहवा महामुसावाओ।।
ता. अणुरूवाणं चिय कायव्वो एयविनासो॥१२॥ अक्षरगमनिका-इतरथा तु कायवासितप्रायमथवा महामृषावादस्ततः अनुरूपाणामेव कर्तव्य एतद्विन्यासः ।।१२।।
टीका-इतरथा तु अर्थालम्बनयोगाभाववतां स्थानादियत्नाभावे तु तच्चैत्यवन्दनानुष्ठानं कायवासितप्रायं सम्मूर्छनजप्रवृत्तितुल्यकायचेष्टिततुल्यं मानसोपयोगशून्यत्वात्, उपलक्षणाद् वाग्वासितप्रायमपि द्रष्टव्यम्। तथा चाननुष्ठानरूपत्वान्निष्फलमेतदिति भावः । अथवा दोषान्तरे तच्चैत्यवन्दनं महामृषावादो महानृतभाषणम् “ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि' इति प्रतिज्ञायां स्थानादिभने महामृषावादस्य स्फुटत्वात्। स्वयं विधिविपर्ययप्रवृत्तौ परेषामेतदनुष्ठाने मिथ्यात्वबुद्धिजननद्वारा तस्य लौकिकमृषावादादतिगुरुत्वाच्च, तथा च विपरीतफलं तेषामेतदनुष्ठानं सम्पन्नम्।
येऽपि स्थानादिशुद्धमप्यैहिककीर्त्यादीच्छयाऽऽमुष्मिकस्वर्लोकादिविभूतीच्छया वैतदनुष्ठानं कुर्वन्ति, तेषामपि “बोहिलाभवत्तिआए निरुवसग्गवत्तियाए'' इति मोक्षार्थकप्रतिज्ञया विहितमेतद्विपरीतार्थतया क्रियमाणं विषगरानुष्ठानान्तर्भूतत्वेन महामृषावादानुबन्धित्वाद् विपरीतफलमेव । ततः तस्माद् अनुरूपाणामेव योग्यानामेव एतद्विन्यासः चैत्यवन्दनसूत्रप्रदानरूपः कर्तव्यो विधातव्य इति ॥१२॥ के एतद्विन्यासानुरूपा इत्याकाङ्क्षायामाह
जे देसविरइजुत्ता जम्हा इह वोसिरामि कायं ति।
सुब्बइ विरईए इमं ता सबं चिंतियवमिणं ॥१३॥ अक्षरगमनिका—ये देशविरतियुक्ता यस्मादिह व्युत्सृजामि कायमिति श्रूयते इदं च विरतौ, ततः सम्यक् चिन्तितव्यमिदम् ।।१३॥
टीका—ये देशविरतियुक्ताः पञ्चमगुणस्थानकपरिणामवन्तस्ते इहाऽनुरूपा इति शेषः, यस्मात् कारणाद् इह चैत्यवन्दनसूत्रे व्युत्सृजामि कायम् इति एवं श्रूयते निशम्यते। इदं च कायव्युत्सृजनं विरतौ चारित्रे देशतः सर्वतो वा सत्यां सम्भवति, तदभावे कायव्युत्सर्गाऽसम्भवात्, तस्य गुप्तिरूपविरतिभेदत्वात् । ततः तस्मात् सम्यग् आगमाऽवैपरीत्येन चिन्तितव्यं परिभावनीयम् इदं यदुत “कायं व्युत्सृजामि" इति प्रतिज्ञाऽन्यथाऽनुपपत्त्या देशविरतिपरिणामयुक्ता एव चैत्यवन्दनाऽनुष्ठानेऽधिकारिणः। तेषामेवाऽऽगमपरतन्त्रतया विधियत्नसंभवेनामृतानुष्ठानसिद्धेरिति ।
__एतच्च मध्यमाऽधिकारिग्रहणं तुलादण्डन्यायेनाऽऽद्यन्तलक्षणानां सर्वविरतिनामविरतसम्यग्दृशां च ग्रहणं द्रष्टव्यम्। तेन परमामृतानुष्ठानपराः सर्वविरतास्तत्त्वत एव । तद्धत्वनुष्ठानपराः अपुनर्बन्धका अपि च व्यवहारादिहाधिकारिणो गृह्यन्ते। कुग्रहविरहसम्पादनेनाऽपुनर्बन्धकानामपि चैत्यवन्दनानुष्ठानस्य फलसम्पादकतायाः पञ्चाशकादिप्रसिद्धत्वादित्यवधेयम्।
ये त्वपुनर्बन्धकादिभावमप्यस्पृशन्तो विधिबहुमानादिरहिता गतानुगतिकतयैव चैत्यवन्दनाद्यनुष्ठानं कुर्वन्ति ते सर्वथाऽयोग्या एवेति व्यवस्थितम् ।।१३।। नन्वविधिनाऽपि चैत्यवन्दनाद्यनुष्ठाने सति तीर्थप्रवृत्तिरव्यवच्छिन्ना स्यात्, विधिरेवाऽन्वेषणे तु द्विवाणामेव विधिपराणां लाभात् क्रमेण तीर्थोच्छेदः स्यादिति तदनुच्छेदायाऽविध्यनुष्ठानमप्यादरणीयमित्याऽऽशङ्कायामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org