________________
१०८]
सप्तदशी योगविधानविंशिका
[ विंशतिर्विशिकाः टीका-स्थीयतेऽनेनेति स्थानं पद्मासनादि ।ऊर्णः शब्दः स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणः । अर्थस्तु सूत्राभिधेयव्यवसायः। आलम्बनं बाह्यप्रतिमादिविषयध्यानम्। रहितो रूपिद्रव्यालम्बनविनिर्मुक्तो निरालम्बनो निर्विकल्पचिन्मात्रसमाधिरूपः। एवं एष योगः पञ्चधा पञ्चप्रकारः तन्त्रे योगप्रधानशास्त्रे प्रतिपादित इति शेषः । अत्र योगविधौ द्वयं स्थानोर्णलक्षणं स्थानस्य साक्षाद् उर्णस्य चोच्चारणांशे क्रियारूपत्वात् कर्मयोगः, तथा प्रकारान्तरे त्रयम् अर्थाऽऽलम्बननिरालम्बनलक्षणम् अर्थादीनां साक्षाद् ज्ञानस्वरूपत्वाद् ज्ञानयोग एव तुरवधारणे ।।२।। एष कर्मयोगो ज्ञानयोगो वा कस्य भवतीत्याह
देसे सव्वे य तहा नियमेणेसो चरित्तिणो होइ।
इयरस्स बीयमित्त इत्तो चिय केइ इच्छंति॥३॥ अक्षरगमनिका-देशस्तथा सर्वतश्च चारित्रिण एष नियमेन भवति । इत एवेतरस्य केचिदिच्छन्ति
बीजमात्रम् ।।३।।
टीका-प्राकृतत्वेन विभक्तिव्यत्ययाद् देशतः सर्वतश्च चारित्रिणः संयमवत एव एष स्थानादिरूपो योगो नियमेन निश्चयेन भवति जायते। इत एव देशसर्वचारित्रं विना योगसम्भवाऽभावादेव इतरस्य देशविरत्यादिगुणहीनस्याऽपुनर्बन्धकादेः केचिद् व्यवहारप्रधाना आचार्या बीजमावं योगबीजमात्रम् इच्छन्ति वाञ्छन्ति। एतेन सकृद्बन्धकादीनां तु निश्चयतो व्यवहारतश्च योगाभावः अवसेयः। ग्रन्थकृतैवोक्तं योगबिन्दौ-सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथा वेषादिमात्रतः ।। ३७० ॥३॥ अथ स्थानादीनामेव प्रतिभेदानाह
इकिको य चउद्धा इत्थं पुण तत्तओ मुणेयव्यो।
इच्छापवित्तिथिरसिद्धिभेयओ समयनीईए॥४॥ अक्षरगमनिका—अत्र पुनरेकैकश्च चतुर्धा तत्त्वतः समयनीत्येच्छाप्रवृत्तिस्थिरसिद्धिभेदतो मुणितव्यः ।।४।।
टीका-अत्र स्थानादौ पुनः कर्मयोगज्ञानयोगाऽपेक्षया भूय एकैकश्च प्रत्येकं चतुर्धा चतुष्प्रकारः तत्त्वतः परमार्थतः समयनीत्या योगशास्त्रविहितक्रमेण इच्छाप्रवृत्तिस्थिरसिद्धिभेदतो वक्ष्यमाणस्वरूपानिच्छाप्रवृतिस्थिरसिद्धिभेदानाश्रित्य मुणितव्यो ज्ञातव्य इति ।।४।। अथेच्छादीनां स्वरूपमाह
तजुत्तकहापीईई संगयाविपरिणामि इच्छा। सव्वत्थुवसमसारं तप्पालणमो पवत्ती उ॥५॥ तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं॥
सव् परत्थसाहगरूवं पुण होइ सिद्धि ति॥६॥ अक्षरगमनिका तयुक्तकथाप्रीत्या सङ्गता विपरिणामिनीच्छा। सर्वत्रोपशमसारं तत्पालनं तु प्रवृत्तिः ।। ५।। तथैवैतद्बाधकचिन्तारहितं स्थिरत्वं ज्ञेयम्। सर्वं परार्थसाधकरूपं पुनः सिद्धिर्भवति ।।६।।
टीका-तयुक्तकथाप्रीत्या तद्युक्तानां स्थानादियोगवतां कथायां वार्तायां प्रीतिः पदार्थबोधजनितहर्षलक्षणा तया सङ्कता सहिता विपरिणामिनी विचित्रं बहुमानादिगर्भं परिणाममादधाना इच्छा स्थानादियोगचिकीर्षारूपमिति। अथ प्रवृत्तिस्वरूपमाह—सर्वत्र सर्वावस्थायाम् उपशमसारम् उपशमप्रधानं तत्पालनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org