SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] सप्तदशी योगविधानविंशिका [ १०७ टीका-एवम् अनन्तरोक्तनीत्या प्रायश्चित्तविधौ यलवान् भावनिरुजो भावारोग्यवान् इह अत्र जन्मनि उत्तमं श्रेष्ठं योगसुखं प्रशमसुखं शारदपूर्णिमाचन्द्रचन्द्रिकोज्ज्वलयशःप्रभृतिकं च लभते, तदुक्तं चकिञ्चान्यद्योगतः स्थैर्य, धैर्यं श्रद्धा च जायते। मैत्री जनप्रियत्वं च, प्रातिभं तत्त्वभासनम् ।।१।। विनिवृत्ताग्रहत्वं च, तथा द्वन्द्वसहिष्णुता। तदभावश्च लाभश्च बाह्यानां कालसङ्गतः।।२।। धृतिः क्षमा सदाचारो, योगवृद्धिः शुभोदया। आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् ।।३।। योगबिन्दुश्लोकाः ५२-५३-५४। परलोके प्रेत्य च तत्फलं प्रायश्चित्तफलं योगफलं वा नरामरशिवसौख्यमेव मनुजसुरमुक्तिसुखमेव लभते प्राप्नोतीति ||२०|| सप्तदशी योगविधानविंशिका अनन्तरविंशिकायां भावनिरुज उत्तमं योगसुखमिह लभत इति यदुक्तं तदत्र विंशिकायां योगविधानमाह मुक्खेण जोयणाओ जोगो सब्बो वि धम्मवावारो। परिसुद्धो विजेओ ठाणाइगओ विसेसओ॥१॥ अक्षरगमनिका-मोक्षेण योजनात् सर्वोऽपि परिशुद्धो धर्मव्यापारो योगो विज्ञेयो विशेषेण स्थानादिगतः ।।१।। टीका-अस्याश्च विंशिकाया न्यायाचार्यकृतविशदव्याख्या विद्यते तथापि स्थानाऽशून्यार्थं तामनुसृत्यैव किञ्चिल्लिख्यते मोक्षेण कृत्स्नकर्मक्षयादाऽऽत्मनः परमानन्देन सह योजनाद् घटनाद् हेतोः सर्वोऽपि निरवशेषोऽपि परिशुद्धः प्रणिधानादिशुभाशयात् पावनो धर्मव्यापार आवश्यकस्वाध्यायप्रतिलेखनभिक्षाटनादिलक्षणो मोक्षकारणीभूताऽऽत्मव्यापारत्वाद् निश्चयेन योगो सम्यग्ज्ञानादिलक्षणो विज्ञेयो बोद्धव्यस्तथाऽपि आत्मनः प्रदेशस्थिरत्वलक्षणपरगुणसिद्ध्यर्थं विशेषेण योगशास्त्रकृतव्यवहारप्राधान्येन स्थानादिगतो वक्ष्यमाणलक्षणस्थानवार्थाऽऽलम्बनादिविषयको धर्मव्यापारो योगपदप्रवृत्तेोगो विज्ञेयः । अथ के ते प्रणिधानादयः शुभाशयाः ? उच्यते-प्रणिधानं प्रवृत्तिर्विघ्नजयः सिद्धिर्विनियोगश्चेति पञ्च । आह च षोडशकप्रकरणे प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतः प्रायः। धर्मज्ञैराख्यातः शुभाशयः पञ्चधाऽत्र विधौ ।।३-६।। अत्र विधौ योगविधावित्यर्थः। आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥३-१२||१॥ अथ के ते स्थानादयः ? कतिभेदं च तत्र योगत्वम् ? इत्याह ठाणुनत्थालंबणरहिओ तंतम्मि पंचहा एसो। दुगमित्थ कम्मओगो तहा तियं नाणजोगो उ॥२॥ अक्षरगमनिका स्थानार्थालम्बनरहित एष पञ्चधा तन्त्रे। अत्र द्वयं कर्मयोगस्तथा त्रयं ज्ञानयोगस्तु ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy