Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 117
________________ षोडशी प्रायश्चित्तविंशिका एवं कुणमाणो खलु पावमलाभावओ निओगेण । सुज्झइ साहू सम्मं चरणस्साराहणा तत्तो ॥ १७ ॥ अक्षरगमनिका — एवं कुर्वाणः खलु साधुः पापमलाभावतो नियोगेन शुध्यति । ततः सम्यक् चरणस्याऽऽराधना ||१७|| टीका — एवम् अनन्तरोक्तनीत्या प्रायश्चित्तेन दुश्चरितशुद्धिं कुर्वाणो विदधान एव खलुशब्दोऽवधारणे साधुः श्रमणः पापमलाभावतः अशुभमलक्षयाद् नियोगेन नियमेन शुध्यति निर्मलीभवति । ततो निर्मलीभवनात् सम्यग् अवितथं चरणस्य चारित्रस्य आराधना साधना भवतीति शेषः ||१७|| चरणाराधनाफलप्रदर्शनपुरस्सरमुपदिशन्नाह—– १०६ ] भवति अविराहियचरणस्स य अणुबंधो सुंदरो उ हवइ त्ति । अप्पो य भवो पायं ता इत्थं होई जइयव्वं ॥ १८ ॥ अक्षरगमनिका अविराधितचरणस्य चाऽनुबन्धः सुन्दरस्तु भवतीति प्रायः अल्पश्च भवस्तस्मादत्र यतितव्यम् ॥ १८ ॥ टीका— अविराधितचरणस्य चाऽक्षतचारित्रस्यैव, अनुबन्धः प्रकृतस्याऽनिवर्तनरूपो भवान्तरे च चारित्रधर्मप्राप्तिलक्षणः संस्कारविशेषः सुन्दरः शोभन एव तुशब्दोऽवधारणे भवति जायते इति हेतोः प्रायो बाहुल्येन अल्पः स्तोक एव चोऽवधारणे भवो जन्मादिसंसार उत्कृष्टतः सप्ताऽष्टौ वा भवा इति । तस्मात् कारणाद् अत्र प्रायश्चित्तलक्षणे प्रधानतपसि भवति युज्यते यतितव्यम् उद्यन्तव्यमिति || १८ || एतदेव दृष्टान्तपुरस्सरमाह अतिचारा [विंशतिर्विंशिकाः किरियाए अपचारे जत्तवओ णावगारगा जह य । पच्छित्तवओ सम्मं तह पव्वजाए अइयारे ॥ १६ ॥ अक्षरगमनिका—यथा च क्रियायां यलवतः अपथ्यानि तथा प्रव्रज्यायां सम्यक् प्रायश्चित्तवतः नाऽपकारकाः ||१६|| टीका—यथा च यद्वच्च क्रियायां रोगप्रतिक्रियायां चिकित्सायामित्यर्थः यत्नवतः प्रयत्नवतः अपथ्यानि स्वास्थ्यहानिकराणि द्रव्याणि नाऽपकारकाणि भवन्ति तथा तद्वत् प्रव्रज्यायां चारित्रधर्मे प्रायश्चित्तवतः पापनिष्कृतिवतः अतिचाराः चारित्रमालिन्यापादका अपराधाः प्रायश्चित्तेन शोधनाद् न नैव अपकारका अनिष्टकारिणो भवन्तीति शेषः । तदुक्तं च सव्वावि पवज्जा पायच्छित्तं भतरकडाणां पावाणं कम्माणं ||१६|| उपसंहरन्नाह Jain Education International एवं भावनिरुज्जो जोगसुहं उत्तमं इहं लहइ । परलोगे य नरामरसिवसुक्खं तत्फलं चैव ॥२०॥ इति प्रायश्चित्तविंशिका षोडशी || १६ || अक्षरगमनिका — एवं भावनिरुज इहोत्तमं योगसुखं परलोके च तत्फलं नरामरशिवसौख्यमेव लभते ॥२०॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148