Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 111
________________ १०० पञ्चदशी आलोचनाविधानविंशिका [विंशतिर्विंशिकाः पार्धे प्रकाशयितव्यमिति ।।१८।। ननु यदाऽपराध आपद्यते तदैवाऽऽलोच्यते तर्हि पक्षे चातुर्मास्येऽवश्यमालोचना दातव्येति यत् प्रागुक्तं तत् कथं सङ्गच्छेतेत्याशङ्कयाऽऽह एवमवि य पक्खाई जायइ आलोयणाओ विसओ ति। गुरुकजाणालोयणा भावाणाभोगओ चेव ॥१६॥ अक्षरगमनिका—एवमपि भावाऽनाभोगत एव गुरुकार्याऽनालोचनात् पक्षादिर्जायत आलोचनाया विषय इति ॥१६॥ टीका-एवमपि अनन्तरोक्तनीत्या तत्कालमाऽऽलोचितेऽपि भावाऽनाभोगत एव परमार्थाऽनुपयोगेनैव गुरुकार्याऽनालोचनाद् गुरुकार्यं प्रथमप्रावृषि निरवशेषोपधिप्रक्षालनप्रभृतिकं तत्र व्यग्रत्वेन पौरुषीप्रतिलेखनादिविस्मृतेरनालोचनादेव पक्षादिः पक्षचातुर्मास्यसंवत्सररूपः अवसरो जायते भवति आलोचनाया स्वाऽपराधकथनस्य विषयो गोचरो गृहकचवरादिदृष्टान्तेन। आह च जह गेहं पतिदियह पि सोहियं तह य पक्खसंधीसु । सोहिज्जइ सविसेसं एवमिहयं पि नायव्वं ।।१।। इतिः समाप्तौ ।। १६|| उपसंहरन्निष्कर्षमाह जं जारिसेण भावेण सेवियं किं पि इत्थ दुचरियं । तं तत्तो अहिगेणं संवेगेणं तहाऽऽलोए॥२०॥ इति आलोचनाविंशिका पञ्चदशी ।।१५।। अक्षरगमनिका—अत्र यत् किमपि दुश्चरितं यादृशेन भावेन सेवितं तत्ततोऽधिकेन संवेगेन तथाऽऽलोचयेत् ॥२०॥ टीका-अत्र चारित्रपरिणामधर्मे आलोचनाविषये वा यत्किमपि स्वल्पमपि दुश्चरितं दुरनुष्ठितं यादृशेन यप्रकारेण भावेन परिणामेन सेवितं चेष्टितं भवेत् तद् दुश्चरितं ततो दुश्चरितसेवनभावाद् अधिकेनाऽतिमात्रेण संवेगेन भवोद्वेगेन तथा तेन प्रकारेण आलोचयेद गरुसकाशे स्वापराध दुश्चरितपापं क्षयं यायात् तथा पूर्वबद्धमपि पश्चात्तापाग्निना भस्मसाद्भवेत् चन्दनबालामृगावतीप्रभृतीनां दृष्टान्तेनेति ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148