Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
६८]
पञ्चदशी आलोचनाविधानविंशिका
[विंशतिर्विंशिकाः समुच्चये जल्पन भाषमाणः ऋजुकम् अवक्रं भणति भाषते तथा तेन प्रकारेण यतिरपि तत् स्वकीयदुश्चरितं मायामदविप्रमुक्तो माया च निकृतिर्मदश्चावलेपः स च जात्यादिभेदादष्टधा मायामदौ ताभ्यां विप्रमुक्तो विरहित एव चशब्दोऽवधारणे आलोचयेत् कथयेदिति ।।११।। प्रसङ्गतोऽन्यमतं प्रदर्श्य तन्निराचिकीर्षुराह
पच्छित्तमयं करणा अन्ने सुद्धिं भणंति नाणस्स।
तं च न; जम्हा एवं ससल्लवणरोहणप्पायं ॥१२॥ अक्षरगमिनका—अन्ये च प्रायश्चित्तमात्रकरणाद् ज्ञानस्य शुद्धिं भणन्ति। तन्न, यस्मादेतत् सशल्यव्रणरोहणप्रायम् ।।१२।।
टीका-अन्ये च स्वव्यतिरिक्ता आचार्याश्च प्रायश्चित्तमात्रकरणात् केवलस्याऽऽलोचनारहितस्य प्रायश्चित्तस्य विधानाद् ज्ञानस्य बोधस्य कथञ्चिद्धर्मधर्मिणोरभेदाद् जीवस्य शुद्धिं शोधिं भणन्ति दिशन्ति । एतन्निराकरणायाह-यदुक्तमन्यैस्तन्न तन्नैव, यस्मात् कारणाद् एतद् आलोचनां विनैव प्रायश्चित्तमात्रकरणं सशल्यव्रणरोहणप्रायः सशल्यो दुष्टगर्भोपेतो व्रणः क्षतं तस्य रोहणं रूढताऽऽपादनं तत्प्रायस्तेन तुल्यमहितमित्यर्थः अनन्तसंसारकारणत्वादिति ।।१२।। एतदेव स्पष्टयति
अवराहा खलु सल्लं एवं मायाइभेयओ तिविहं।
सव्वं पि गुरुसमीवे उद्धरियव्वं पयत्तेण॥१३॥ अक्षरगमनिका अपराधाः खलु शल्यं मायादिभेदतस्त्रिविधमेतत् सर्वमपि प्रयलेन गुरुसमीप उद्धर्तव्यम् ॥१३॥
टीका-अपराधाश्चारित्रमालिन्यापादका एव खलुशब्दोऽवधारणे चित्तं शलत इति शल्यं तोमरकण्टकादय इव भावशल्यं मायादिभेदतो मायानिदानादिप्रकारतस्त्रिविधं त्रिप्रकारम् । एतद् भावशल्यं सर्वमपि निखिलमेव प्रयत्नेन प्रयासेन गुरुसमीपे आचार्यादिपार्थे उद्धर्तव्यं समूलमुन्मूलयितव्यमालोचनादाने- नेति ।।१३॥ अथानुद्धृतभावशल्यस्य विपाककटुतामावेदयन्नाह
न य तं सत्थं व विसं व दुप्पउत्तु ब्व कुणइ वेयालो। जंतं व दुप्पउत्तं सत्तु ब पमाइओ कुद्धो॥१४॥ जं कुणइ भावसल्लं अणुद्धियं उत्तिमढकालम्मि।
दुल्लहबोहीयत्तं अणंतसंसारियत्तं च ॥१५॥ अक्षरगमनिका न च तं शस्त्रं वा विषं वा दुष्प्रयुक्तो वा वेतालो दुष्पयुक्तं वा यन्त्रं प्रमादितो वा क्रुद्धः शत्रुः करोति यमनुद्धृतं भावशल्यमुत्तमार्थकाले दुर्लभबोधिकत्वमनन्तसांसारिकत्वं च ॥१४-१५||
___टीका न च नैव तमपायं करोतीति सम्बन्धः। शस्त्रं वा करवालादि, विषं वा हलाहलं, दुष्पयुक्तो वा दुःसाधितो वा वेतालः पिशाचः, दुष्पयुक्तं वा दुर्व्यापारितं वा यन्त्रं शतघ्यादि, प्रमादितो वाऽवहीलितो वा कुद्धः कुपितः शत्रुः रिपुः क्वचिद् ग्रन्थान्तरे 'सप्पो' त्ति पाठमाश्रित्याऽवगीतः कुद्धः सर्पः, वाशब्दा विकल्पार्थाः ।।१४।। यमपायं करोति विधत्ते, अनुट्टतम् अनिष्कासितं चारित्रकायाद् भावशल्यम् अनालोचितदुश्चरितम् उत्तमार्थकाले उत्तमार्थः सर्वोत्कृष्टप्रयोजनं पण्डितमरणमनशनादिविधानलक्षणं तस्य कालः अवसर उत्तमार्थकालस्तस्मिन् । शस्त्रादीनि ह्येकभविकमेव मरणं विदधति। एतच्चाऽनन्तजन्ममरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148