Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ] षोडशी प्रायश्चित्तविंशिका
[ १०१ षोडशी प्रायश्चित्तविंशिका समाप्ता शल्योद्धरणलक्षणाऽऽलोचनाविंशिका । अथ व्रणलेपस्थानीयप्रायश्चित्तविंशिकाऽऽरभ्यते। तस्याश्चेयमाद्या गाथा
पच्छित्ताओ सुद्धी तहभावालोयणेण जं होइ।
इहरा ण पीढबंभाइओ सआ सुकडभावे वि॥१॥ अक्षरगमनिका—यत्तथाभावाऽऽलोचनेन प्रायश्चित्ताद् भवति शुद्धिर्नेतरथा पीठब्राह्मयादेः सदा सुकृतभावेऽपि ||१|
___टीका-यत् यस्मात् तथाभावाऽऽलोचनेन दुरितसेवनभावादधिकसंवेगाद् भावाऽऽलोचनेन पारमार्थिकरीत्या स्वाऽपराधकथनेन युक्तात् प्रायश्चित्ताद् वक्ष्यमाणलक्षणाद् भवति जायते शुद्धिः पापक्षयः, यत्तदोर्नित्यसम्बन्धात् तस्माद् नेतरथा नैवाऽन्यथा विना प्रायश्चित्तमित्यर्थः । अत्रार्थे दृष्टान्तमाह पीठब्राह्मयादेः पीठमहापीठमहामुनयोब्राह्मीसुन्दरीपूर्वभवजीवयोः सदा सर्वदा सुकृतभावेऽपि स्वाध्यायप्रभृतिशोभनानुष्ठानसत्त्वेऽपि। श्रूयते हि ताभ्यां स्वाऽऽचार्यविषये जाताऽप्रीतेस्तथाप्रायश्चित्ताऽकरणात्तन्निमित्तबद्धस्त्रीवेदस्य सदा स्वाध्यायादिसकतभावेऽपि शद्धिर्न जाता चरमभवेऽपि स्त्रीत्वाऽवाप्तेः । अयं भाव :--आलोचनापूर्वकमेव प्रायश्चित्तं शुद्धिकारणं यतो गुरुसकाशे स्वदोषकथनादेव शुद्धिर्जायते। स्वदोषकथने च स्वकीयहीनतालघुतास्थानभ्रंशभयमेव प्रतिबन्धकं जायते। तत्प्रतिबन्धकमपास्य यथास्थितं च आलोचयति तस्याऽध्यवसायशुद्धिर्यादृशी विशिष्टा भवति तादृशी शुद्धिः प्रायः अन्यतपःस्वाध्यायाद्यनुष्ठानेषु न संभवति। किञ्च-गीतार्थस्याग्रे स्वदोषकथनमिति ह्यालोचनाहार्दम्। अत एव स्वदोषस्य प्रायश्चित्तं जानताऽपि गीतार्थेनाऽपरगीतार्थपार्धे आलोचना कार्येति जिनाज्ञा। भावालोचनां विना प्रायश्चित्तमात्रस्य करणेऽपि लक्ष्मणाऽऽर्याया भववृद्धिर्जाता। अत आलोचनापूर्वकं प्रायश्चित्तं कर्तव्यमिति ।।१।। नन्वनन्तरविंशिकायां यदुक्तं यत्किञ्चिदपि दुश्चरितं यादृशेन भावेन सेवितं तत्ततोऽधिकेन संवेगेन तथाऽऽलोचयितव्यं यथा तदुरितक्षयः स्यात्तर्हि प्रायश्चित्तं किंफलमित्याशङ्कयाह
अहिगा तक्खयभावे पच्छित्तं किंफलं इहं होइ।
तदहिगकम्मक्खयभावओ तहा हंत मुक्खफलं॥२॥ अक्षरगमनिका—अधिकात्तत्क्षयभावे प्रायश्चित्तमिह किंफलं भवति? तथा तदधिककर्मक्षयभावतो हन्त ! मोक्षफलम् ॥२॥
टीका-अधिकात् सर्वं वचनं सावधारणमिति दुश्चरितसेवनभावतोऽधिकादेव संवेगात् तत्क्षयभावे आलोचितदुश्चरितनाशे सति प्रायश्चित्तं वक्ष्यमाणस्वरूपं किंफलं किंप्रयोजनम् इह मौनीन्द्रप्रवचने शुद्धिप्रस्तावे वा भवति जायते ? न किञ्चित्फलमित्याशङ्कयाह-तथा तेन प्रकारेणाऽऽलोचनापूर्वकस्य प्रायश्चित्तस्य करणेन तदधिककर्मक्षयभावतो दुश्चरितजन्यपापकर्मणः सकाशादधिकस्य पूर्वबद्धस्यापि कर्मणः क्षयभावतो नाशभवनाद् हन्त ! आमन्त्रणे प्रायश्चित्तं मोक्षफलं निर्वाणसाधकं भवति तदुक्तं च-“एवं निकाइयाण वि कम्माणं भणियमेत्थ खवणं" (प्रायश्चित्तपञ्चाशक गा. ३५-पूर्वार्धम्) ॥२॥
अथ प्रायश्चित्तस्वरूपमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148