Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 63
________________ ५२ ] अष्टमी पूजाविधिविंशिका [ विंशतिर्विशिकाः 'अगारिणोऽवि' पाठान्तरमाश्रित्य गृहस्थस्यापि च उक्तसमुच्चये इति हेतोः संलग्नमानसं धर्मस्थानं यद् ब्रुवते तत् सम्यक् समीचीनमेवेति ||१०|| अथोपचारभेदात् पूजाभेदमाहपंचट्ठसव्वभे ओवयारजुता य होइ एस त्ति । जिणचउवीसाजोगोवयारसंपत्तिरूवा य ॥११॥ अक्षरगमनिका — पञ्चाष्टसर्वभेदोपचारयुक्ता च भवत्येषेति जिनचतुर्विंशतेरयोगोपचारसम्पत्तिरूपा च ||११|| टीका–पञ्चाष्टसर्वभेदोपचारा पञ्चभिः कुसुमाक्षतगन्धधूपदीपैः क्रियत उपचारः प्रतिपत्तिर्यत्र सा पञ्चोपचारा, सैव सनैवेद्यफलजला अष्टोपचारा उपलक्षणात् स्नपनार्चनवस्त्रविभूषणादिभिः सप्तदशादिसर्वभेदोपचारयुक्ता च भवति जायते एषा पूजा इतिर्हेतौ यस्माद् जिनचतुर्विंशत्ययोगोपचारसम्पत्तिरूपा जिनचतुर्विंशतेः ऋषभादिमहावीरपर्यन्तजिनेश्वराणाम् अयोगो विरहो मुक्तिगमनात्, तस्मात् तस्याः श्रीजिनचतुर्विंशतेः उपचारसम्पत्तिरूपा उपचारः अतद्वति तदारोपः स क्रियते यासु तासां जिनेन्द्रप्रतिमानाम् अनन्तरोक्तपूजालक्षणेन विनयोपचारेण संप्राप्तिरूपा भावतः साक्षात्करणरूपा प्रस्तुतपूजा । तदुक्तं च - " तत्थ य पंचुवयारा कुसुमक्खयगंधधुवदीवेहिं ।”, “कुसुमक्खयगंधपईवधुवने वेज्जफलजलेहिं पुणो । अट्ठविहकम्मदलनी अड्डवयारा हवइ पूआ । सव्वोवयारपूया णहवणच्चणवत्थभूसणाइहिं । फलबलिदीवाईहिं नट्टगीअआरत्तिआहिं ।। " (चैत्यवन्दन महाभाष्य २०६/११) अथवा जानुद्वयकरद्वयोत्तमाङ्गलक्षणैः पञ्चाङ्गप्रणिपातरूपो विनयो यत्र सा पञ्चोपचारा, एषैव सपृष्ठवक्षउदरा अष्टोपचारा, अन्तःपुरहस्त्यश्वरथादिभिश्च सर्वैः प्रकारैरुपचारो यस्यां सा सर्वोपचारा दशार्णभद्रनृपस्येव । तदुक्तं च- "दो जाणू दोणि करा पंचमयं होइ उत्तमंगं तु”, सिसमुरोयर पिट्ठी दो बाहू उरुया य अहंगा ।। तथा " सव्वबलेणं सव्वसमुदएणं सव्वविभूइए सव्वविभूसाए सव्वायरेणेत्यादि ” ।।११।। अधुना पूजायां द्रव्यभावशौचमाह— सुद्धं चेव निमित्तं दव्वं भावेण सोहियव्वं ति । इय एगंतविसुद्धा जायइ एसा तहिट्ठफला ॥ १२ ॥ अक्षरगमनिका— शुद्धं द्रव्यं निमित्तमेवेति भावेन तथा शोधितव्यमेवमेकान्तविशुद्धा जायत एष्टफला ||१२|| टीका - पूजायां शुद्धम् अनवद्यं न्यायोपात्तत्वाद् द्रव्यं पुष्पादि निमित्तमेव हेतुरेव शुभभावं प्रति । तदुक्तं पूजापञ्चाशके—पवरेहिं साहणेहिं पायं भावोवि जायए पवरो। इति हेतोः भावेन यथा विहितानुष्ठानमेषा पूजा निराशंसभावेन सदा कुर्वतां भवति चरणस्य हेतुः । तथा पूजातो मनः शान्तिस्ततः शुभध्यानं ततो मोक्ष इत्यादि भावनया तथा तेन प्रकारेण शोधितव्यं विशिष्टशुद्धिमत् कुर्यात् । एवम् उक्तप्रकारेण एकान्तविशुद्धा नितान्तानवद्या जायते भवति एषा पूजा इष्टफला सिद्धिफलेति ||१२|| शुभभावं प्रति पूजादिसामग्रीलक्षणं द्रव्यं निमित्तमुक्तम् । साम्प्रतं जिनेन्द्रप्रतिमालक्षणं निमित्तमाह Jain Education international सयकारियाइ एसा जायइ ठवणाइ बहुफला केइ । गुरुकारियाइ अत्रे विसिट्ठविहिकारियाए य ॥ १३॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148