Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 104
________________ विंशतिर्विशिकाः] चतुर्दशी अशुद्धिलिङ्गान्तभिक्षान्तरायविंशिका [ ६३ टीका-इह भिक्षायोगे प्रवर्तमाना मुनयः कायोत्सर्गे चिन्तयन्ति मङ्गलमिति सण्टङ्कः। विधा वक्ष्यमाणनीत्या निजगुरुजनसङ्गतैः निजैर्दक्षिणाङ्गस्फुरणादिभिः शुभप्रवृत्तिलक्षणैस्तथा गुरुराचार्यादिरत्नाधिकसंघाटकप्रभृतिस्तत्सत्कैस्तथैव शुभप्रवृत्तिलक्षणैस्तथा जनसङ्गतैर्लोकप्रवादादिरूपैर्यथा काचित् सन्नारी स्वशिशुं त्वरयन्ती वदेत् शीधं याहीत्यादिलक्षणैस्तथाकायवचोमनोभिः शुभदेहवाक्स्वान्तैरुपलक्षणान्नन्दितूरादिशकुनैश्च निमित्तशुद्धिं लिङ्गशुद्धतां परीक्षमाणाः परितः समन्ताद् ईक्षमाणा अवलोकयन्तश्चिन्तयन्ति प्राकृतत्वाद्वचनव्यत्यय इति ध्यायन्ति मङ्गलं पञ्चपरमेष्ठिनमस्कारलक्षणमहामन्त्रमिति ।। ४॥ एतेषां निमित्तानामशुद्धौ यत्कर्तव्यं तदाह एयाणमसुद्धिए चिइवंदण तह पुणो वि उवओगो। सुद्धे गमणं हु चिरं असुद्धभावे ण तद्दियहं ॥५॥ अक्षरगमनिका-एतेषामशुद्धौ पुनरपि चैत्यवन्दनं तथोपयोगोऽपि। शुद्धे खलु गमनम् । चिरमशुद्धिभावे न तद्दिवसे ।।५।। टीका-एतेषाम् अनन्तरोक्तनिजगुरुजनसङ्गतमनोवाक्कायादिना निमित्तानाम् अशुद्धौ शुद्धताऽभावे पुनरपि मुहुरपि चैत्यवन्दनं जिनप्रतिमाया वन्दनं तथा समुच्चये उपयोगोऽपि प्रणिधानमपि पुनः कर्तव्य इति शेषः । शुढे भावनिर्देशाद् निमित्तानां शुद्धत्वे सत्येव हु प्राकृतत्वादवधारणे भिक्षायै गमनं यानं कार्यम् । चिरं मुहुर्मुहुः अशुद्धिभावे अशुद्धौ सत्यां न नैव तद्दिवसे तस्मिन् वासरे गमनं कर्तव्यं परं तद्दिवस उपोषितः स्यादिति ।।५।। निमित्तशुद्धिं निरूप्याऽथाऽन्तरायानाह सुद्धे वि अंतराया एए परिसेहगा इहं हुंति। __ आहारस्स इमे खलु धम्मस्स उ साहगा जोगा॥६॥ इति लेशतः अशुद्धिलिङ्गान्तभिक्षान्तरायविंशिका चतुर्दशी ।। अक्षरगमनिका—शुद्धेऽपीहैतेऽन्तराया आहारस्य प्रतिषेधका भवन्ति। इमे योगास्तु खलु धर्मस्य साधकाः ।।६।। टीका-आस्तामशुद्धे शुद्धेऽपि विशुद्धेऽपि निमित्ते इह मौनीन्द्रप्रवचने एते वक्ष्यमाणा अन्तराया विघ्नानि आहारस्याऽशनादेस्तच्छुद्धेर्वा प्रतिषेधका निषेधका भवन्ति वर्तन्ते। अत्र हेतुमाह-यस्माद् इमे परिशुद्ध्यर्थं भिक्षाटनादिका योगा मनोवाक्कायलक्षणा धर्मव्यापारा धर्मस्य ज्ञानादिलक्षणस्य साधका निष्पादकाः सन्ति। आहारशुद्धौ सत्यामेव योगशुद्धिरिति। तदुक्तं च-गुर्वी पिण्डविशुद्धिरेव संयमाधारः। किञ्चन्यायोपार्जितं द्रव्यं यथा गृहस्थानामभ्युदयसाधकं तथैव यतीनां शुद्धाहारादयो विशुद्धचारित्रसाधका इति ।।६।। अतः परं प्रस्तुतविंशिकायां गाथा नोपलभ्यन्ते तथाऽपि स्थानपूर्तये दिगम्बराऽऽम्नायाऽऽगतमूलाचारग्रन्थेऽन्तरायविषयकं गाथाषट्कमुपलभ्यते, तदत्राऽक्षरगमनिकया सह लिख्यते कागागिद्धाछद्दीरोधनरुधिरं च अस्सुवादं च। जण्हुहेट्टापरिघं जण्हुवरि वदिकमो चेव॥१॥ णाहिअहोणिग्गमणं पञ्चक्खिदसेवण च जंतुवहो। कागादिपिंडहरणं पाणीदो पिंडपडणं च॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148