Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 94
________________ विंशतिर्विशिकाः ] द्वादशी यतिशिक्षाविंशिका पश्चात् तदूर्ध्वं रागद्वेषाकरणात् सर्वजीवेषु मैत्रीभावेनाऽभयानुभवनात् सङ्गत्यागतोऽपि तद्वैराग्येण निःस्पृहत्वसुखसंवेदनात् कषायोपशमेन च चित्तप्रसादात् संयमानुष्ठानगुणज्ञानेन बहुमानात् तप्रति भक्तिः पूज्यत्वमेव प्रादुर्भवति तुशब्दोऽवधारणे। तत्संगतं प्रीत्यनुष्ठानमेव विशुद्धतरव्यापारवद् भक्त्यनुष्ठानं भवति जायते। तदुक्तं च षोडशव शकप्रकरणेयत्रादरोस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तप्रीत्यनुष्ठानम् ।।१।। गौरवविशेषयोगाद्बुद्धिमतो यद्विशुद्धतरयोगम्। क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ।।२।। आह कः पुनः प्रीतिभक्त्योर्विशेष ? उच्यते-सदृशमपि भोजनाच्छादनादिकृत्यं जननीपल्योः क्रियते परं प्रीत्या पत्याः क्रियते भक्त्या मातुरितीयान् विशेषः प्रीतिभक्त्योः। तदुक्तं च षोडशकप्रकरणे अत्यन्तवल्लभा खलु पनी तद्वद्धिता च जननीति। तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् ।।१।। ततः परम् आगममात्रं श्रीजिनवचनमेव हेतुः प्रवर्तककारणं सर्वत्रौचित्येन यत्रानुष्ठाने तद्वचनानुष्ठानं यतेर्नियोगेन भवति नान्यस्य विपर्ययान्निश्चयनयमतमेतद् व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्तमानस्य देशत इदं भवत्येव। तदुक्तं च षोडशकप्रकरणे वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु। वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।।१।। एतन्न्यायाचार्यवृत्तिः-वचनेत्यादि । वचनात्मिकाऽऽगमार्थस्मरणाविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्र सर्व्वस्मिन् धर्मव्यापारे शान्तिप्रत्युपेक्षादौ औचित्त्ययोगतो देशकालपुरुषव्यवहाराद्यानुकूल्येन या तु भवति इदमेवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः साधोर्नियोगेन नियमेन भवति तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानावाप्तेस्तत्र च लोकसंज्ञाभावान्नान्यस्य विपर्ययान्निश्चयनयमतमेतद् व्यवहारतस्त्वन्यस्यापि मार्गानसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ।। ततो वचनानुष्ठानाभ्यासातिशयेन तथा संस्काराधानात् चन्दनगन्धन्यायेन सात्मीभावमागतम् असङ्गत्वं निरालम्बनभावः प्रादुर्भवति अत एव तत्प्रधानमसङ्गानुष्ठानं भवति एकान्तात् तीव्रभावात् जिनकल्पिकानाम् ।। तदुक्तं च षोडशकप्रकरणे यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।।१।। इदं त्वत्र ध्येयम्-यथा चक्रभ्रमणमेकं दण्डसंयोगात् प्रयत्नपूर्वकाद्भवति तथा वचनानुष्ठानमप्यागमसंयोगात् प्रवर्तते। यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्काराऽपरिक्षयात् संभवति । एवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्तते तदसङ्गानुष्ठानमितीयान् विशेष इति न्यायाचार्याः षोडशकवृत्तौ। एषां चतुर्णामनुष्ठानानां चाद्ये प्रीतिभक्त्यनुष्ठानेऽभ्युदयफले तथा चरमे वचनासङ्गानुष्ठाने च विघ्नरहिते मोक्षफले विज्ञेये। अत एव पूर्वसंयमः स्वर्गहेतुरपूर्वसंयमश्च मोक्षहेतुः ।।१७।। तदुक्तं च- चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ।।१।। अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे। एतदनुष्ठानानां विज्ञेये इह गतापाये ||२|| एतच्चतुर्विध Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148