________________
विंशतिर्विशिकाः ]
द्वादशी यतिशिक्षाविंशिका पश्चात् तदूर्ध्वं रागद्वेषाकरणात् सर्वजीवेषु मैत्रीभावेनाऽभयानुभवनात् सङ्गत्यागतोऽपि तद्वैराग्येण निःस्पृहत्वसुखसंवेदनात् कषायोपशमेन च चित्तप्रसादात् संयमानुष्ठानगुणज्ञानेन बहुमानात् तप्रति भक्तिः पूज्यत्वमेव प्रादुर्भवति तुशब्दोऽवधारणे। तत्संगतं प्रीत्यनुष्ठानमेव विशुद्धतरव्यापारवद् भक्त्यनुष्ठानं भवति जायते। तदुक्तं च षोडशव
शकप्रकरणेयत्रादरोस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तप्रीत्यनुष्ठानम् ।।१।। गौरवविशेषयोगाद्बुद्धिमतो यद्विशुद्धतरयोगम्।
क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ।।२।। आह कः पुनः प्रीतिभक्त्योर्विशेष ? उच्यते-सदृशमपि भोजनाच्छादनादिकृत्यं जननीपल्योः क्रियते परं प्रीत्या पत्याः क्रियते भक्त्या मातुरितीयान् विशेषः प्रीतिभक्त्योः। तदुक्तं च षोडशकप्रकरणे
अत्यन्तवल्लभा खलु पनी तद्वद्धिता च जननीति।
तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् ।।१।। ततः परम् आगममात्रं श्रीजिनवचनमेव हेतुः प्रवर्तककारणं सर्वत्रौचित्येन यत्रानुष्ठाने तद्वचनानुष्ठानं यतेर्नियोगेन भवति नान्यस्य विपर्ययान्निश्चयनयमतमेतद् व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्तमानस्य देशत इदं भवत्येव। तदुक्तं च षोडशकप्रकरणे
वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु।
वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।।१।। एतन्न्यायाचार्यवृत्तिः-वचनेत्यादि । वचनात्मिकाऽऽगमार्थस्मरणाविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्र सर्व्वस्मिन् धर्मव्यापारे शान्तिप्रत्युपेक्षादौ औचित्त्ययोगतो देशकालपुरुषव्यवहाराद्यानुकूल्येन या तु भवति इदमेवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः साधोर्नियोगेन नियमेन भवति तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानावाप्तेस्तत्र च लोकसंज्ञाभावान्नान्यस्य विपर्ययान्निश्चयनयमतमेतद् व्यवहारतस्त्वन्यस्यापि मार्गानसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ।। ततो वचनानुष्ठानाभ्यासातिशयेन तथा संस्काराधानात् चन्दनगन्धन्यायेन सात्मीभावमागतम् असङ्गत्वं निरालम्बनभावः प्रादुर्भवति अत एव तत्प्रधानमसङ्गानुष्ठानं भवति एकान्तात् तीव्रभावात् जिनकल्पिकानाम् ।। तदुक्तं च षोडशकप्रकरणे
यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः ।
तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।।१।। इदं त्वत्र ध्येयम्-यथा चक्रभ्रमणमेकं दण्डसंयोगात् प्रयत्नपूर्वकाद्भवति तथा वचनानुष्ठानमप्यागमसंयोगात् प्रवर्तते। यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्काराऽपरिक्षयात् संभवति । एवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्तते तदसङ्गानुष्ठानमितीयान् विशेष इति न्यायाचार्याः षोडशकवृत्तौ। एषां चतुर्णामनुष्ठानानां चाद्ये प्रीतिभक्त्यनुष्ठानेऽभ्युदयफले तथा चरमे वचनासङ्गानुष्ठाने च विघ्नरहिते मोक्षफले विज्ञेये। अत एव पूर्वसंयमः स्वर्गहेतुरपूर्वसंयमश्च मोक्षहेतुः ।।१७।। तदुक्तं च- चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ।।१।। अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे। एतदनुष्ठानानां विज्ञेये इह गतापाये ||२|| एतच्चतुर्विध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org