SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ द्वादशी यतिशिक्षाविंशिका जह आउरस्स रोगक्खयत्थिणो दुक्करा वि सुहहेउ । इत्थ चिगिच्छाकिरिया तह चेव जइस्स सिक्ख त्ति ॥ १५॥ अक्षरगमनिका - यथाऽत्र रोगक्षयार्थिन आतुरस्य दुष्कराऽपि चिकित्साक्रिया सुखहेतुस्तथैव यतेः शिक्षेति ||१५|| टीका- यथा दृष्टान्ते अत्र संसारे रोगक्षयार्थिनो गदोन्मूलनाभिलाषिण आतुरस्य रोगिणो दुष्कराऽपि आस्तां मृदुका चण्डापि चिकित्साक्रिया रुक्प्रतिक्रिया सुखहेतुः स्वास्थ्यशर्मफला तथैव तेनैव प्रकारेण यतेः श्रमणस्य शिक्षा दुष्कराऽपि प्रस्तावादासेवनशिक्षा शिवशर्मफला इति हेतोर्यथोक्तमासेवनीयमिति ॥ १५ ॥ अपि च ८२ ] जं सम्मनाणमेयस्स तत्तसंवेयणं निओगेण । अन्नेहि वि भणियमओ विज्जसंविज्जपदमिसिणो ॥ १६ ॥ अक्षरगमनिका — एतस्य यत् सम्यग्ज्ञानं नियोगेन तत्त्वसंवेदनमतः अन्यैरपि ऋषेर्वेद्यसंवेद्यपदं भणितम् ||१६|| टीका- - एतस्य यतेः यत् सम्यग्ज्ञानं जिनोपज्ञहिताहितावबोधस्तद् नियोगेन नियमेन तत्त्वसंवेदनं तत्त्वं संयमाद्यनुष्ठानं हितं तत्संवेदनं तत्र प्रवृत्तितोऽपि तथानुभवनं स्त्र्यादि चाऽपायहेतुरिति तद्विरतिपरिणामः, यदागमः—‘जं सम्मंति पासहा तं मोणं ति पासहा' इत्यादि निश्चयनयाभिप्रायेण यत् सम्यक्त्वं तदेव मौनं मुनिभावो ज्ञातस्याऽऽसेवनात् । अतः कारणाद् अन्यैरपि स्वव्यतिरिक्तपतञ्जलिप्रभृतिभिरपि ऋषेर्योगिनो वेद्यसंवेद्यपदम् आगमविशुद्धबुद्ध्या तथाऽप्रवृत्तितः अपायहेतुः स्त्र्यादि वेद्यं यत्र संवेद्यते सम्यगनुभूयते तत् पदं गुणस्थानं भणितं कथितम् । तथा चाह— वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धम् । तथाऽप्रवृत्तिबुद्धयापि स्त्र्याद्यागमविशुद्धया || तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥ अथ प्रसङ्गतः अनुष्ठानभेदानाह पढममह पीई विहु पच्छा भत्ती उ होइ एयस्स । आगममित्तं हेऊ तओ असंगत्तमेगंता ॥ १७ ॥ Jain Education International [ विंशतिर्विशिकाः यो दृ. स. ७३-७४ ।। ।। १६ ।। जइणो चउव्विहं चिय अन्नेहि वि वन्नियं अणुट्ठाणं । पीईभत्तिगयं खलु तहागमासंगभेयं च ॥ १८ ॥ अक्षरगमनिका ———अथैतस्य प्रथमं प्रीतिः पश्चाद् भक्तिस्तु भवति । आगममात्रं हेतुस्ततः असङ्गत्वमेकान्तात् ||१७|| यतेश्चतुर्विधमेवान्यैरपि वर्णितमनुष्ठानं प्रीतिभक्तिगतं खलु तथाऽऽगमासङ्गभेदं च ||१८|| टीका - अथाऽऽनन्तर्ये एतस्य यतेः प्रथमं प्रारम्भकाले विशिष्टगुणानवबोधेऽपि प्रीतिः अभिरुचिर्जायते। अत एव अपुनर्बन्धकोऽपि सर्वसङ्गत्यागेन संयमानुष्ठानमभ्युपगच्छति । करोति च तत् परमादरात्। For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy