SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] द्वादशी यतिशिक्षाविंशिका [८१ रे जीव ! माया संसारबीजम्, मोक्षमार्गप्रस्थितस्य तव किमनया, त्यजैनाम्, भव ऋजुः, ऋजूभूतस्य शोधिरिति । यदि वोपधिः वस्त्रपात्रादिस्तप्रेक्षया प्रतिलेखनेन सह शिक्षापूर्वम् आचार्योपाध्यायाधुपदेशपूर्वम् उचितं देशकालस्वशक्त्यनुरूपं निःशेषं सर्वं यतिचर्यारूपं सम्यग् अवितथम् आसेवते अनुतिष्ठतीति ।।११।। आसेवनशिक्षाया एव महत्त्वमाह पडिवत्तिविरहियाणं न हु सुयमित्तमुवयारगं होइ। नो आउरस्स रोगो नासइ तह ओसहसुईओ॥१२॥ अक्षरगमनिका प्रतिपत्तिविरहितानां न खलु श्रुतमात्रमुपकारकं भवति । तथौषधश्रुतितो नातुरस्य रोगो नश्यति ।।१२।। टीका-प्रतिपत्तिविरहितानां प्रतिपत्तिरासेवनं प्रस्तावात् सूत्रार्थस्य तद्विरहितानां तच्छून्यानां न नैव हु प्राकृतत्वादवधारणे श्रुतमात्रं श्रवणगोचरीभूतमात्रम् उपकारकम् अनुग्राहकं भवति जायते। अत्रार्थे दृष्टान्तमाह- तयौषधश्रुतितः केवलं भेषजश्रवणाद् न नैव आतुरस्य रोगिणो रोगो व्याधिः नश्यति क्षयमुपैति, अपि तु तत्प्रयोगत एव नश्यति। एवमेव सूत्रासेवनादेव संसाररोगो नश्यति, न तु श्रवणमात्रत इति ।।१२।। आस्तां प्रतिपत्तिविरहेण विपरीतेनापि क्रियायोगेन न नश्यति, अपि तु वर्धत इत्याह न य विवरीएणेसो किरियाजोगेण अवि य वडेइ । इय परिणामाओ खलु सव्वं खु जहुत्तमायरइ ॥१३॥ अक्षरगमनिका—न च विपरीतेन क्रियायोगेनैषः, अपि च वर्धत इति परिणामात् खलु सर्वं यथोक्तमाचरति॥१३॥ टीका-न च नापि विपरीतेन विरोधिना क्रियायोगेन कुपथ्यादिसेवनलक्षणेन एष रोगो क्षयमुपैति, अपि च परं वर्धते एवमेवोत्सूत्राचरणेन भवरोगोपि न नश्यति, अपि तु वर्धते इति हेतोः परिणामाद् जिनोक्तमिति भावसारमेव खलुशब्दोऽवधारणे सर्व निरवशेष यथोक्तमाचरति यथा तीर्थकरगणधरैरुपदिष्टं तथैव श्रमणः अनुतिष्ठतीति ।।१३।। एतदेवाभ्युच्चयति थेवो वित्थमजोगो नियमेण विवागदारुणो होइ। पागकिरियागओ जह नायमिणं सुप्पसिद्धं तु॥१४॥ अक्षरगमनिका-इत्थं स्तोकोऽप्ययोगो नियमेन विपाकदारुणो भवति यथा पाकक्रियागतो ज्ञातमिदं सुप्रसिद्धं तु ||१४|| टीका-इत्थम् अनन्तरोक्तनीत्या स्तोकोऽपि स्वल्पोऽपि अयोगः क्रियान्यूनतालक्षणो विपरीतो वा क्रियायोगो नियमेनाऽवश्यंतया विपाकदारुणः अभ्युपगतस्याऽकरणात् प्राप्तदुरापस्य विनाशात् सानुबन्धाऽशुभकर्मबन्धात् श्रीजिनाज्ञाविराधनाच्च दुर्लभबोधित्वेन दीर्धसंसारफलत्वात् परिणामकटुः भवति जायते, यथा दृष्टान्ते पाकक्रियागतः पाचनक्रियासत्कः अयोगो लवणादेरभावो पाकानुकूलसामग्यभावो वा व्यापाराभावो वा विपरितयोगो वा खण्डस्थाने लवणप्रयोगो द्रव्यविनाशकः अयशःकरश्च भवति । ज्ञातं दृष्टान्तम् इदं पाकक्रियागतं सुप्रसिद्ध तु सुप्रतीतमेव ।।१४।। ननु कालस्य विषमत्वात् संयमस्य च दुष्करत्वात् कथं यथोक्तमनुष्ठातव्यमित्याशङ्कयाहविं. ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy