________________
८० ]
द्वादशी यतिशिक्षाविंशिका
[ विंशतिर्विंशिकाः
अक्षरगमनिका —— तस्य तस्य च सूत्रस्यार्थग्रहणे तु एष तथैवानुपूर्व्या भावपर्याययोगतो
विज्ञेयः ॥ ६॥
टीका- - तस्य तस्य चाऽऽवश्यकदशवैकालिकादेः सूत्रस्य पूर्वोक्तस्वरूपस्य अर्थग्रहणे अभिधेयग्रहणे तुशब्दो विशेषे स च वक्ष्यत एव एष विधिर्यथा सूत्रग्रहणे 'पत्तं परियाएणं' इत्यादिस्तथैव तेनैव प्रकारेण आनुपूर्व्या परिपाट्या, तथाहि प्रथमं तावदावश्यकं ततो दशवैकालिकं तत उत्तराध्ययनानि तत आचाराङ्गमित्यादिरूपया । अथ विशेषमाह - भावपर्याययोगतो भावश्च यथा सूत्रं तथा सूत्रार्थोऽपि परममन्त्ररूप इत्यध्यवसायः पर्यायश्चाऽस्खलितचारित्रपर्यायो भावपर्यायौ ताभ्यां योगतः सङ्गत्या । 'भावपरिवागजोगओ'त्ति पाठान्तरमाश्रित्य भावः परिणामस्तस्य परिपाकः परिणतिः, अपरिणामित्वातिपरिणामित्वपरिहारेण परिणामित्वमित्यर्थस्तद्योगतस्तत्सङ्गत्या विधिः विज्ञेयो बोद्धव्यः । अयं भावः - अर्थग्रहणे पर्यायेण प्राप्तोऽपि अपरिणामी अतिपरिणामी चाऽयोग्य इति तत्परिहारेण परिणामिन्येवार्थन्यास इति विधिः ॥ ६ ॥ अर्थग्रहणविधिमेव विशेषत आह—
अक्षरगमनिका मण्डली निषद्याऽक्षाः कृतिकर्मोत्सर्गो वन्दनं ज्येष्ठ उपयोगः संवेगः स्थाने प्रश्नश्चेत्यादि ||१०|l
च
मंडलिनिसिज अक्खाकिइकम्मुस्सग्ग वंदणं जिट्ठे । उवओगो संवेगो ठाणे पसिणो य इच्चाइ ॥१०॥
टीका — मण्डली साधूनां यथापर्यायं गोलाकारावस्थानं यत्र वा तद् व्याख्यानादिस्थानम् । क्वचिद् ग्रन्थान्तरे 'मज्जन' इतिपाठस्तथा च मण्डलीस्थानप्रमार्जनम् । निषयाऽऽसनविशेषो गुवदिः, आदिपदात् स्थापनाचार्यस्याऽक्षाणां मनागुच्चतरा । अक्षाः चन्दनका उपनीयन्ते, क्वचित् 'सिक्खा' 'सक्खा' चापपाठ इति नाद्रियते । कृतिकर्म वन्दनमाचार्यस्य । कायोत्सर्गः अनुयोगार्थमूर्ध्वस्थानम् । ज्येष्ठे ज्येष्ठविषयं वन्दनम्, इह भाषमाणो भवति ज्येष्ठः, न तु पर्यायेण ततो वन्देत तमेवेति । उपयोगः समीपयोगः प्रस्तावाच्च सूत्रार्थव्याख्यानश्रवणविषयः अवितथभावः, एतल्लिङ्ग एव बोधः परलोकपक्षपातो भगवद्बहुमानश्च । उक्तं
उवओगो पुण एत्थ विण्णेओ समीवजोगो त्ति ।
विहियकिरियागओ खलु अवितहभावो उ सव्वत्य ॥ । यो श. गा. ७६ ।।
संवेगः अहोभावस्तदभिव्यञ्जको वा रोमाञ्चगद्गदध्वन्यादिः । उक्तं च-जह जह नवनवसुअमभिगाहइ तह तह संवेगमेइ । स्थाने योग्यावसरे प्रश्नः पृच्छा चः समुच्चय आदिपदात् प्रतिप्रश्नादिग्रहणमवसेयमिति ||१०|| अथाssसेवनशिक्षामाह-
आसेवइ य जहुत्तं तहा तहा सम्ममेस सुत्तत्थं । उचियं सिक्खापुव्वं नीसेसं उवहिपेहाए ॥११॥
अक्षरगमनिका—यथोक्तं सूत्रार्थं तथा तथैष उपधिप्रेक्षया शिक्षापूर्वमुचितं निःशेषं सम्यगा
सेवते ॥ ११ ॥
टीका — यथोक्तं येन येन प्रकारेण श्रीजिनवरगणधरैरुपदिष्टं सूत्रार्थं पूर्वोक्तस्वरूपं तथा तथा तेन तेन प्रकारेण एष यतिः उपधिप्रेक्षया उपधिर्मायाचारस्तत्प्रेक्षया निरीक्षणेन शिक्षापूर्वम् आत्मानुशासनपूर्वं यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org