SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] द्वादशी यतिशिक्षाविंशिका [ ७६ न नैव जातु कदाचिद् निजकृत्ये सार्वभौमत्वे प्रभुसत्तायां भोगलीलायां वा प्रीतिर्जायत इति ॥ ५ ॥ शिक्षाद्विकप्राधान्यं प्रदर्श्याऽथ ग्रहणशिक्षामाहात्म्यं विशेषत आह— गिण्हइ विहिणा सुत्तं भावेणं परममंतरूव त्ति । जोगो वि बीयमहुरोदजोगतुल्लो इमस्स त्ति ॥६॥ अक्षरगमनिका — परममन्त्ररूपं सूत्रमिति भावेन विधिना गृह्णाति । अस्य योगोऽपि बीजमधुरोदयोगतुल्य इति ॥ ६ ॥ टीका— परममन्त्ररूपं परमः श्रेष्ठो मन्त्रो देवादिसाधनं तद्वद् रूपं स्वरूपं यस्य तत् सूत्रं श्रीजिनोपज्ञं गणधरादिस्थविरैः सन्दृब्धं श्रुतम् इति हेतोः भावेन आन्तरप्रीत्या विधिना पत्तं परियाएणे' त्यादिना वक्ष्यमाणस्वरूपेण तत् सूत्रं यतिः गृह्णाति आददाति । सूत्रमाहात्म्यमेवाह — अस्य सूत्रस्याऽऽस्तां परिणतिः योगोऽपि विधिग्रहणलक्षणसम्बन्धोऽपि बीजमधुरोदयोगतुल्यो बीजं गोधूमादि तेन सह मधुरोदयोगो स्वादुजलसंयोगस्तेन तुल्यः समः अवश्यं सानुबन्धविरतिपरिणामफलो ज्ञानस्य फलं विरतिः इति हेतोर्भावन विधिना गृह्याति । अयं भावः यथा बीजं मधुरजलसंयोगेन फलं प्रयच्छति तथैव चारित्रबीजं सूत्रलक्षणमधुरजलसंयोगेन मुक्तिफलं प्रयच्छतीति || ६ || अथ सूत्रग्रहणविधिमाह-. पत्तं परियाएणं सुगुरुसगासाउ कालजोगेण । उद्देसाइकमयं सुत्तं गेज्झति गहणविहि ॥७॥ अक्षरगमनिका - पर्यायेण प्राप्तं सूत्रं कालयोगेन सुगुरुसकाशादुद्देशादिक्रमयुतं ग्राह्यमिति ग्रहणविधिः ||७|| टीका - पर्यायेण दीक्षापर्यायेण प्राप्तं क्रमागतं सूत्रं पूर्वोक्तस्वरूपं कालयोगेन कालो त्रिपञ्चादिवर्षलक्षणस्तद्योगेन तत्सङ्गत्या यदि वा पदैकदेशे पदोपचारात् कालग्रहणयोगोद्वहनेन सुगुरुसकाशात् सुगुरुः पूर्वोक्तस्वरूपो गुणगुरुस्तस्य सकाशात् पार्श्वाद् उद्देशादिक्रमयुतम् उद्देशसमुद्देशादिक्रमसङ्गतं ग्राह्यं ग्रहीतव्यम् इतिर्निदर्शने ग्रहणविधिः सूत्रग्रहणविधानमिति ॥७॥ उक्तः सूत्रग्रहणविधिरथ दानविधिमाह--- एसु च्चिय दाणविही नवरं दाया गुरूऽथ एयस्स । गुरुसंदिट्ठो वा जो अक्खयचारित्तजुत्तु त्ति ॥८॥ अक्षरगमनिका — एतस्य दानविधिरेष एव केवलं दाता यः अक्षतचारित्रयुक्त इति गुरुरथ वा ||८|| Jain Education International गुरुसन्दिष्ट टीका - एतस्य सूत्रस्य दानविधिः प्रयच्छनविधानम् एष एवानन्तरोक्तः पत्तं परियाएणं' इत्यादिरेव नवरं प्राकृतत्वात् केवलं दाता प्रयच्छको यः अनिर्दिष्टनामा अक्षतचारित्रयुक्तः अक्षुण्णमहाव्रतधारक एव इतिशब्दोऽवधारणे स गुरुरथवा गुरुसन्दिष्टोवा गुर्वनुज्ञातः सूत्रदाता अथशब्दो विकल्प इति ॥८॥ अथार्थग्रहणविधिमाह अत्थगहणे उ एसो विन्नेओ तस्स तस्स य सुयस्स । तह चैव भावपरियागजोगओ आणुपुवीए ॥ ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy