________________
७८ ]
द्वादशी यतिशिक्षाविंशिका
[ विंशतिर्विंशिकाः चक्रवर्तिनः क्षुद्रक्रियासु बालधूलिक्रीडातुल्यप्राकृतजनसुलभकृष्यादितुच्छचेष्टासु भवति जायते मतिः धीस्तथैव दान्तिकेऽर्थे तुरवधारणे न नैव एतस्यापि श्रमणसिंहस्यापि धर्मराज्यवतः त्यागवैराग्यसंयमज्ञानध्यानादियोगैश्वर्यवत्त्वाद् राज्यमिव राज्यं तद्वतो मतिः शिक्षाद्वयं मुक्त्वा नान्यत्र पामरजनसुलभक्षुद्रक्रियासु प्रवर्तत इति ॥ २ ॥ अत्रैव हेतुमाह
जह तस्स व रज्जत्तं कुव्वंतो वच्चए सुहं कालो । तह एयस्स वि सम्मं सिक्खादुगमेव धन्नस्स ॥ ३ ॥
अक्षरगमनिका—यथा तस्य च राज्यं तथैतस्यापि धन्यस्य शिक्षाद्वयमेव कुर्वतः सुखं व्रजति
कालः ॥ ३ ॥
टीका- - यथा येन प्रकारेण तस्य च चक्रवर्तिनः पुना राज्ञो कर्म राज्यं प्रभुसत्ता तत्कुर्वतः सातोपभोगेन सुखं व्रजति कालः तथा तेन प्रकारेण एतस्यापि यतिशार्दुलस्यापि धन्यस्य पुण्यधनमर्हतीति धन्यस्तस्य सम्यग् यथाविधि शिक्षाद्वयमेव उक्तस्वरूपमेव कुर्वतो विदधानस्य सुखं निराकुलं सानन्दं व्रजति याति कालः पूर्वकोट्यादिलक्षणः अद्धासमय इति || ३ || ननु वर्षपर्यायस्य यतेः सुखम् अनुत्तरविमानवासिनां देवानां सुखमतिशेत इति श्रूयते, तर्हि चक्रवर्तिन इव साधोः सुखं कालो यातीति कथमुक्तमिति चेदुच्यते, सत्यम् उपमाभावादेवमुक्तमन्यथा चक्रिसुखात् साधुसुखं प्रधानमस्त्येवेत्युच्यते—
तत्तो इमं पहाणं निरुवमसुहहेउभावओ नेयं । इत्थ वि होदइगसुहं तत्तो एवोपसमसुहं ॥४॥
अक्षरगमनिका- - तत एतत्प्रधानं निरुपमसुखहेतुभावतो ज्ञेयम् । अत्रापि ह्यौदयिकसुखं तत उपशमसुखमेव || ४ ||
टीका — ततश्चक्रिसुखाद् एतत् साधुसुखं प्रधानं सातिशयम् । अत्र हेतुमाह - निरुपमसुखहेतुभावतो निरुपमम् उपमातीतं सुखं शिवशर्म तस्य हेतुभावतः कर्मोपशान्तिभवनाद् ज्ञेयं बोद्धव्यम् । आस्तां परलोके अत्रापि इहभवेऽपि हिर्हेतौ यस्माच्चक्रवर्तिन औदयिकसुखं सातवेदनीयकर्मोदयभवं सुखं तच्च विषयसापेक्षं विषयरागवर्धनं सावधिकं बाहुल्येन च हिंसाजन्यमत एव विपाकदारुणं च ब्रह्मदत्तादीनामिव ततस्तस्माद् औदयिकसुखाद् उपशमसुखमेव श्रमणसत्कं शमशर्मैव विषयवैराग्येण तत्त्यागात् तथाविधकषायोपशमेन चित्तप्रसादजन्यत्वाद् विषयनिरपेक्षत्वेन स्वाधीनत्वात् स्वाभाविकत्वेन निरवधिकत्वाद् विपाकमधुरत्वाच्च प्रधानमिति भावः || ४ || अत एवाह
सिक्खादुगंमि पीई जह जायइ हंदि समणसीहस्स ।
तह चक्कवट्टिणो वि हु नियमेण न जाउ नियकिच्चे ॥ ५॥
अक्षरगमनिका हन्त ! यथा श्रमणसिंहस्य शिक्षाद्विके नियमेन प्रीतिर्जायते तथा चक्रवर्तिनोऽपि खलु न जातु निजकृत्ये ॥५॥
Jain Education International
टीका — हन्त ! आमन्त्रणेऽनन्तरोक्तनीत्या चक्रवर्तिनो राज्यसुखाद् यतेः शिक्षाद्विकसुखं प्रधानम् तत एव यथा येन प्रकारेण श्रमणसिंहस्य साधुशार्दूलस्य शिक्षाद्विके पूर्वोक्तस्वरूपे नियमेनाऽवश्यंतया प्रीतिः प्रमोदो जायते भवति तथा तेन प्रकारेण चक्रवर्तिनोऽपि आस्तां कस्यचिद् राज्ञश्चक्रिणोऽपि हुशब्दोऽवधारणे
For Private & Personal Use Only
www.jainelibrary.org