SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः। द्वादशी यतिशिक्षाविंशिका [ ७७ सूत्रार्थ आगमार्थः स्वसमयपरसमययोगतः स्वसिद्धान्तपरसिद्धान्तसङ्गत्या भावयितव्यः अन्वयव्यतिरेकेण सूक्ष्मेक्षिकया विचारणीय इति ।। १६|| उपसंहरन्नाह संखेवेणं एसो जइधम्मो वजिओ अइमहत्थो। मंदमइबोहणट्ठा कुग्गहविरहेण समयाओ॥२०॥ इति यतिधर्मविंशिका एकादशी ।।११॥ अक्षरगमनिका-अतिमहार्थ एष यतिधर्मो मन्दमतिबोधनार्थं कुग्रहविरहेण समयतः संक्षेपेण वर्णितः ॥२०॥ टीका-अतिमहार्थः सुगभीरार्थ एषः अनन्तरोक्तो यतिधर्मः साधुधर्मो मन्दमतिबोधनार्थ मन्दाऽतीक्ष्णा मतिः शैमुषी येषां ते मन्दमतयस्तेषां बोधनार्थं ज्ञापनार्थं कुग्रहविरहेण कदाग्रहरहितेन माध्यस्थ्येनेत्यर्थः, स्वमतिकल्पनाजालनिरासायाह समयतः सिद्धान्ततः संक्षेपेण समासेन प्रस्तुतग्रन्थस्य प्रकरणरूपत्वाद् वर्णितो निरूपित इति ॥२०॥ * * * द्वादशी यतिशिक्षाविंशिका समाप्ता यतिधर्मविंशिकाऽधुना तस्यैव यतेः शिक्षाविंशिकाऽऽरभ्यते। तस्याश्चेयमाद्या गाथा सिक्खा इमस्स दुविहा गहणासेवणगया मुणेयव्वा। सुत्तत्थगोयरेगा बीयाऽणुद्वाणविसय ति॥१॥ अक्षरगमनिका—अस्य शिक्षा ग्रहणाऽऽसेवनगता द्विविधा मुणितव्या-एका सूत्रार्थगोचरा द्वितीयाऽनुष्ठानविषयेति ।।१।। टीका-अस्य यतेः शिक्ष्यतेऽनया शिक्षा वक्ष्यमाणस्वरूपा ग्रहणाऽऽसेवनगता ग्रहणं च ज्ञानोपार्जनम् आसेवनं च स्थानाद्यनुष्ठानं ग्रहणाऽऽसेवने तद्गता तद्विषया द्विविधा द्विप्रकारा मुणितव्या बोद्धव्या। एनयोर्विषयमाह एका तावत् प्रथमा ग्रहणशिक्षा सूत्रार्थगोचरा सूत्रं च गणधरादिस्थविरसन्दृब्धम् अर्थं च तदभिधेयः सूत्रार्थों तद्गोचरा तद्विषया। द्वितीया क्रमापेक्षया पुनःअनुष्ठानविषया प्रतिलेखनाधासेवनविषया इतिः समाप्तौ ।।१।। अनन्तरोक्तशिक्षाद्वयं विहायाऽपरं किमपि यतये कर्तव्यतारूपेण न रोचते इत्युपमाद्वारेणाह जह चकवट्टिरचं लद्धणं नेह खुद्दकिरियासु। होइ मई तह चेव उ नेयस्सवि धम्मरज्जवओ॥२॥ अक्षरगमनिका-यथा चक्रवर्तिराज्यं लब्ध्वा नेह क्षुद्रक्रियासु भवति मतिस्तथैव तु नैतस्यापि धर्मराज्यवतः ।।२।। टीका-यथा दृष्टान्ते चक्रवर्तिराज्यं षट्खण्डसार्वभौमसाम्राज्यं लब्वा प्राप्य न नैव इह संसारे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy