SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७६ ] एकादशी यतिधर्मविंशिका [ विंशतिर्विशिकाः अक्षरगमनिका-एतस्याभावेऽपि नो ब्रह्माऽनुत्तराणं यत्तेषां ब्रह्मणि न मनोवृत्तिस्तथापरिशुद्धाशयाभावात् ।। १६॥ टीका-आस्तां मैथुनयोगसद्भावे एतस्य मैथुनयोगस्य अभावेऽपि असत्त्वेऽपि नो नास्ति ब्रह्म ब्रह्मचर्यम् अनुत्तराणां पदैकदेशे पदोपचार इति अनुत्तरविमानवासिदेवानां यद् यस्मात् तेषाम् अनुत्तरविमानवासिनां ब्रह्मणि पूर्वोक्तस्वरूपे न नैव मनोवृत्तिः पूर्वोक्तस्वरूपा वक्ष्यमाणस्वरूपा वा तथापरिशुद्धाशयाभावात् तथाविधनिरवद्यविरतिपरिणामाभावादिति ।।१६।। निष्कर्षमाह बंभमिह बंभचारिहिं वन्नियं सबमेवऽणुट्ठाणं। तो तम्मि खओवसमो सा मणवित्ती तहिं होइ॥१७॥ अक्षरगमनिका-इह ब्रह्म ब्रह्मचारिभिर्वर्णितं सर्वमेवानुष्ठानम्, ततस्तस्मिन् क्षयोपशमः सा मनोवृत्तिस्तत्र भवति ।।१७॥ टीका-इह मौनीन्द्रप्रवचने यतिधर्मे वा ब्रह्म ब्रह्मचर्यं ब्रह्मचारिभिः स्वतत्त्वे रममाणै?रब्रह्मचारिभिस्तीर्थकरगणधरैः वर्णितं विधेयत्वेनोपदिष्टं सर्वमेव निरवशेषमेव अनुष्ठानं वक्ष्यमाणं यतेग्रहणासेवनशिक्षारूपं चरणकरणलक्षणं वा। ततस्तस्मात् कारणात् तस्मिन् अनुष्ठाने यः क्षयोपशमः चारित्रमोहनीयकर्मणो वीर्यान्तरायकर्मणश्चोदीर्णांशस्य क्षयस्तथाऽनुदीर्णांशस्य च विपाकमाश्रित्योपशमः। एवम्भूतः क्षयोपशम एव सा मनोवृत्तिः मनस्कारः तत्र ब्रह्मणि भवति जायते। अयं भावः-संयमानुष्ठाने मनसो व्यापृतत्वेन बहिर्गमनाभावात् कारणे कार्योपचारादुक्तलक्षणः क्षयोपशम एव ब्रह्मणि मनोवृत्तिरिति ।।१७॥ अनन्तरोक्तक्षयोपशमसाधनं मनोनिरोधोऽपि ब्रह्मेत्याह एवं परिसुद्धासयजुत्तो जो खलु मणोनिरोहो वि। परमत्थओ जहत्थं सो भण्णइ बंभमिह समए॥१८॥ अक्षरगमनिका—एवं परिशुद्धाशययुक्तो यः खलु मनोनिरोधः सोऽपि परमार्थत इह समये यथार्थं ब्रह्म भण्यते ||१८|| टीका-एवम् अनन्तरोक्तनीत्याऽऽस्तां संयमानुष्ठाने क्षयोपशमः परिशुद्धाशययुक्तो विरतिपरिणामसंगतो यः पुनः खलुः पुनरर्थे मनोनिरोधः विषयप्रवृत्तस्य मनसो निग्रहः सोऽपि परमार्थतो वस्तुत इह अस्मिन् मौनीन्द्रे समये प्रवचने यथार्थ सार्थकं ब्रह्म ब्रह्मचर्यं भण्यते कथ्यते तीर्थकरगणधरैः। प्रथमतः अभ्यासदशायां मनोनिग्रहोऽपि स्वतत्त्वे मनोवृत्तिकारणमिति सुष्क्तमिति ||१८|| अनन्तरोक्तनीत्या कार्यकारणभावेन सर्वत्र सूत्रार्थे भावनार्थमाह इय तंतजुत्तिनीईई भावियवो बुहेहिं सुत्तत्थो । सबो ससमयपरसमयजोगओ मुक्खकंखीहिं॥१६॥ अक्षरगमनिका—एवं तन्त्रयुक्तिनीत्या मोक्षकाङ्क्षिभिर्बुधैः सर्वोऽपि सूत्रार्थः स्वपरसमययोगतो भावयितव्यः ।।१६॥ टीका-एवम् अनन्तरोक्तरीत्या तन्त्रयुक्तिनीत्या तन्त्रं चाप्तागमो युक्तिश्च तर्कः तन्त्रयुक्ती तयोर्नीत्या न्यायेन आगमहेतुभ्यामित्यर्थः, मोक्षकाङ्क्षिभिः मुक्तिकामिभिः बुधैः पण्डितैः सर्वोऽपि निरवशेषोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy