SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] एकादशी यतिधर्मविंशिका [ ७५ पापमलक्षालनं पापं प्राणातिपाताद्यष्टादशप्रकारं तन्निमित्तं वोपार्जितं यद् ज्ञानावरणीयाद्यशुभकर्म तदेव ज्ञानादिगुणमलनाद् मलं तस्य क्षालनं शोधनं तद् यतिजनप्रशस्तं साधुलोक श्लाघितं शौचं नैर्मल्यं निरतिचारतेत्यर्थः || १२ || अथाऽऽकिञ्चन्यमाह पक्खीए उवमाए जं धम्मोवगरणाइरेगेण । वत्थुस्सागहणं खलु तं आकिंचन्त्रमिह भणियं ॥ १३ ॥ अक्षरगमनिका — पक्षिण उपमया यद् धर्मोपकरणाऽतिरेकेण वस्तुनोऽग्रहणं खलु तदाकिञ्चन्यमिह भणितम् ॥१३॥ टीका — पक्षिणो विहङ्गमस्य उपमया दृष्टान्तेन यथा पक्षी प्रायश उड्डयनसमये पक्षातिरेकेण न किञ्चिद् धारयति, अत एव सुखेनोड्डयते तथैव साधोरपि यद् धर्मोपकरणातिरेकेण संयमयात्रोपकारिवस्त्रपात्रादीन् विहाय मूर्च्छया समधिकस्य वस्तुनो वस्त्रपात्रादिपदार्थजातस्यापि अग्रहणम् अनादानमेव खलुरवधारणे तद् आकिञ्चन्यम् अपरिग्रहः अमूर्च्छति यावद् इह मौनीन्द्रप्रवचने यतिधर्मे वा भणितम् उपदिष्टं तीर्थकर - गणधरैरिति ॥ १३॥ अथ ब्रह्माह मेहुणसत्राविजएण पंचपरियारणापरिच्चाओ । बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥ १४॥ अक्षरगमनिका — मैथुनसंज्ञाविजयेन ब्रह्मणि मनोवृत्त्या यः पञ्चपरिचारणापरित्यागः स सुपरिशुद्धं ब्रह्म || १४ || टीका-मैथुनसंज्ञाविजयेन मैथुनसंज्ञा पुंवेदोदयान्मैथुनाय संभोगाय या स्त्रीविलोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया तस्या विजयेन निरोधेन ब्रह्मणि स्वतत्त्वे ज्ञानादौ तत्साधनस्वाध्यायादौ वा मनोवृत्त्या विशिष्टमनोव्यापारलक्षणया वक्ष्यमाणस्वरूपया वा यो वक्ष्यमाणः पञ्चपरिचारणात्यागः पञ्चभिः कायस्पर्शरूपशब्दमनोलक्षणैः परिचारणा मैथुनसेवनं तस्य परित्यागो योगत्रिककरणत्रिकेण परिहारः स सुपरिशुद्धं निरतिचारादनवद्यं ब्रह्म ब्रह्मचर्यमिति || १४ || परिचारणामेवाह— कायफरिसरूवेहिं सद्दमणेहिं च इत्थ पवियारो । रागा मेहुणयोगो मोहुदयं रइफलो सव्वो ॥१५॥ अक्षरगमनिका — कायस्पर्शरूपैः शब्दमनोभ्यां चात्र प्रविचारो मोहोदयो रागात् सर्वो मैथुनयोगो रतिफलः ।। १५ ।। टीका — कायस्पर्शरूपैः प्रतीतैः शब्दमनोभ्यां प्रसिद्धाभ्यां चात्र अस्मिन् संसारे प्रविचारो मैथुनसेवनं मोहोदयो वेदमोहनीयोदयः प्राकृतत्वाद् लिङ्गव्यत्ययः । अत एवाह — रागात् कामाभिष्वङ्गात् सर्वो निखिलो मैथुनयोगः पशुक्रीडा रतिफलो मोहजन्यक्षणिकसांसारिकसुखहेतुः । अत्रेदं तु ध्येयम्-वेदमोहोदयात् कामरागस्ततो मैथुनसेवनं ततो रतिस्ततो वेदमोहनीयकर्मबन्धस्तदुदयात् पुनः कामरागादिका सैवानर्थपरम्परेति विषचक्रमेतदिति || १५ || बह्मणि मनोवृत्तिं विना मैथुनयोगाभावेऽपि न ब्रह्मेत्याह Jain Education International एयस्साभावंमि वि नो बंभमणुत्तराण जं तेसिं । बंभे ण मणोवित्ती तह परिसुद्धासयाभावा ॥ १६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy