SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७४ ] एकादशी यतिधर्मविंशिका [विंशतिर्विंशिकाः पंचासवा विरमणं पंचिंदियनिग्गहो कसायजओ। दंडत्तयस्स विरई सत्तरसहा संजमो होइ ।।१।। एवमिन्द्रियकषायादिनिग्रहतः प्रेक्षादियोगकरणं प्रेक्षा दृष्ट्वा प्रेक्ष्य बीजहरितजन्तुरहितं यत् स्थानं तत्र शयनाऽऽसनादीनां योगानां धर्मव्यापाराणां करणम्। अथवा सीदन्तं साधु प्रति प्रेरणम्। आदिपदाद् उपेक्षा गृहस्थस्य पापव्यापारं कुर्वत उपेक्षणं न पुनरिदं गृहचिन्तादिकं सावधानः कुरु इत्याधुपदेशनम्। अथवा पार्श्वस्थादीनां निर्दयव्यापाराणामुपेक्षा, तथा प्रमार्जनाऽप्रमार्जना ग्रामादिप्रवेशनिर्गमने कृष्णादिभूप्रदेशात् पीतादिभूप्रदेशे विहरतां साधूनां गृहस्थाद्यनिरीक्षणे सचित्ताचित्तमिश्ररजोगुण्ठितपादादीनां रजोहरणादिना प्रमार्जन सागारिकादिनिरीक्षणे त्वप्रमार्जनम् । यदुक्तं पायाई सागरिए अपमजित्तावि संजमो होइ। ते चेव पमजंतेऽसागरिए संजमो होइ। तथापृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजीवानां मनोवाक्कायैः करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा जीवरक्षणम् । तथा अजीवरूपाण्यपि पुस्तकादीनि प्रतिलेखनाप्रमार्जनापूर्व धारयतः साधोः अजीवसंयमः। तथा परिष्ठापना त्याज्याहारमलवस्त्रपात्रादीनां जन्तुरहितस्थाने विधिना परिष्ठापनम्। तथा मनसो द्रोहेाभिमानादिभ्यो निवर्तनं धर्मध्यानादिषु प्रवर्तनम्। तथा वाचो हिंस्रपरुषादिभाषाभ्यो निवर्तनं शुभभाषायां च प्रवर्तनम् । तथा गमनागमनाद्यवश्यकरणीयेषु सोपयोगं कायस्य व्यापारणम्। इत्येवं विधानं तत् सर्व निरवशेष संयमः सम् एकीभावेन यम उपरमो ज्ञेयः अवसेयः । तदुक्तं—पुढवी दग अगणि मारुय वणस्सइ बि ति चउ पणिंदि अज्जीवा। पेहुप्पेह पमज्जण परिठवण मणो वई काए।।१।। अधुना सत्यधर्ममाह गुरुसुत्ताणुनायं जं हियमियभासणं ससमयम्मि। अपरोवतावमणघं तं सचं निच्छियं जइणो॥११॥ अक्षरगमनिका—स्वसमये यतेर्यद् गुरुसूत्रानुज्ञातमपरोपतापमनघं निश्चितं हितमितभाषणं तत् सत्यम् ।।११।। टीका–स्वसमये मौनीन्द्रप्रवचने यतेः श्रमणस्य यद् वक्ष्यमाणस्वरूपं गुरुसूत्रानुज्ञातं गुरुश्चाचार्यादिः सूत्रं चागमो गुरुसूत्रे ताभ्यामनुज्ञातम् अनुमतम् तथा अपरोपतापम् अपरसंतापकम् अनघम् अनवद्यं निश्चितं निस्सन्देहं हितमितभाषणं हितं च हितकरं मितं दीर्घसूत्रितापरिहारेण प्रमाणोपेतं प्रयोजननिष्पादकमित्यर्थः हितमितं भाषणं व्याहरणं तत् सत्यम् प्रतीतमिति ।।११।। अथ शौचमाह आलोयणाइदसविहजलओ पावमलखालणं विहिणा। जं दवसोयजुत्तं तं सोयं जइजणपसत्थं ॥१२॥ अक्षरगमनिका-द्रव्यशौचयुक्तं यदालोचनादिदशविधजलतो विधिना पापमलक्षालनं तद् यतिजनप्रशस्तं शौचम् ।। १२॥ . टीका-द्रव्यशौचयुक्तं द्रव्यशौचं मलत्यागानन्तरं प्रासुकजलेन यदाचमनं तेन युक्तं संगतं यद् वक्ष्यमाणम् आलोचनादिदशविधजलत आलोचनाप्रतिक्रमणादिदशविधप्रायश्चित्तनीरेण विधिनाऽऽगमोक्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy