________________
८४ा
द्वादशी यतिशिक्षाविंशिका
[विंशतिर्विशिकाः मप्यनुष्ठानमन्यैरपि वर्णितमित्याह—यतेः श्रमणस्य चतुर्विधमेवाऽनन्तरोक्तस्वरूपमेव अन्यैरपि पतञ्जलिप्रभृतिभिरपि वर्णितं संशितम् अनुष्ठानं कृत्यासेवनं प्रीतिभक्तिगतमित्यादि व्याख्यातप्रायमिति ॥१८|| श्रमणः सर्वत्राहारादिषु संयतो भवतीत्याह
आहारोवहिसिजासु संजओ होइ एस नियमेण। जायइ अणहो सम्मं इत्तो य चरित्तकाउ ति॥१६॥ एयासु अवत्तवओ जह चेव विरुद्धसेविणो देहो। पाउणइ न उणमेवं जइणो वि हु धम्मदेहु ति॥२०॥
इति शिक्षाविंशिका द्वादशी ।।१२।। अक्षरगमनिका-एष आहारोपधिशय्यासु नियमेन संयतो भवति। इतश्च चारित्रकायः सम्यग् जायतेऽनघ इति ।।१६।। यथैव विरुद्धसेविनो देहो न प्राप्रोति गुणं यतेरपि खल्वेतास्वयलवतो धर्मदेह इति ॥२०॥
टीका-एष शिक्षाद्वयान्वितो यतिः आहारोपषिशय्यासु आहारश्चाशनादिक उपधिश्च वस्त्रपात्रादिकः शय्या च प्रतिश्रयादिलक्षणा साधुवसतिश्च आहोरोपधिशय्याः, एतासु नियमेन नियोगेन संयतः सम्यग् रागद्वेषविरहेण सर्वत्र यतो यतनाशील आधाकर्मादिद्वाचत्वारिंशदुत्पादनादिदोषाऽङ्गारधूमादिपञ्चमण्डलीदोषवर्जको भवति वर्तते। यदागमः--जयं चरे जयं चिट्टे, जयमासे जयं सए। जयं भुजंतो भासंतो, पावं कम्मं न बंधई।। द. वै. सू. अ. ४-८॥ इतचाऽत एव संयतत्वात्तस्य यतेः चारित्रकायश्चारित्रं संयमः स एव ज्ञानादिगुणैश्चीयत इति कायो देहः सम्यग् अवितथभावेन सर्वत्र प्रवर्तनाद् जायते भवति अनघः परिशुद्ध इतिः समाप्तौ ।।१६।। अथैतद्विपर्ययमाह यथैव दृष्टान्ते विरुद्धसेविनश्चिकित्साकाले कुपथ्यसेविन आतुरस्य देहः शरीरं न नैव प्राणोति याति गुणम् आरोग्यलक्षणलाभं तथैव यतेरपि साधोरपि हुशब्दोऽवधारणे एतासु आहारोपधिशय्यास्वेव अव्यक्तव्रतः अव्यक्तान्यतिचारशबलानि व्रतानि यस्याऽसौ धर्मदेहः चारित्रकायो न नैव प्राप्नोति गुणं ज्ञानादिस्फातिम्। 'अवत्तचओ' इति पाठान्तरमाश्रित्याऽव्यक्तश्चयो व्रतानां तदाधारभूतज्ञानादीनां वा यस्य स धर्मदेहः शेषं पूर्ववत् । अथवाऽऽहारोपधिशय्यासु अयत्नवतः अयतनाशीलस्य धर्मदेहो न प्राप्नोति गुणमिति ।।२०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org