Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 95
________________ ८४ा द्वादशी यतिशिक्षाविंशिका [विंशतिर्विशिकाः मप्यनुष्ठानमन्यैरपि वर्णितमित्याह—यतेः श्रमणस्य चतुर्विधमेवाऽनन्तरोक्तस्वरूपमेव अन्यैरपि पतञ्जलिप्रभृतिभिरपि वर्णितं संशितम् अनुष्ठानं कृत्यासेवनं प्रीतिभक्तिगतमित्यादि व्याख्यातप्रायमिति ॥१८|| श्रमणः सर्वत्राहारादिषु संयतो भवतीत्याह आहारोवहिसिजासु संजओ होइ एस नियमेण। जायइ अणहो सम्मं इत्तो य चरित्तकाउ ति॥१६॥ एयासु अवत्तवओ जह चेव विरुद्धसेविणो देहो। पाउणइ न उणमेवं जइणो वि हु धम्मदेहु ति॥२०॥ इति शिक्षाविंशिका द्वादशी ।।१२।। अक्षरगमनिका-एष आहारोपधिशय्यासु नियमेन संयतो भवति। इतश्च चारित्रकायः सम्यग् जायतेऽनघ इति ।।१६।। यथैव विरुद्धसेविनो देहो न प्राप्रोति गुणं यतेरपि खल्वेतास्वयलवतो धर्मदेह इति ॥२०॥ टीका-एष शिक्षाद्वयान्वितो यतिः आहारोपषिशय्यासु आहारश्चाशनादिक उपधिश्च वस्त्रपात्रादिकः शय्या च प्रतिश्रयादिलक्षणा साधुवसतिश्च आहोरोपधिशय्याः, एतासु नियमेन नियोगेन संयतः सम्यग् रागद्वेषविरहेण सर्वत्र यतो यतनाशील आधाकर्मादिद्वाचत्वारिंशदुत्पादनादिदोषाऽङ्गारधूमादिपञ्चमण्डलीदोषवर्जको भवति वर्तते। यदागमः--जयं चरे जयं चिट्टे, जयमासे जयं सए। जयं भुजंतो भासंतो, पावं कम्मं न बंधई।। द. वै. सू. अ. ४-८॥ इतचाऽत एव संयतत्वात्तस्य यतेः चारित्रकायश्चारित्रं संयमः स एव ज्ञानादिगुणैश्चीयत इति कायो देहः सम्यग् अवितथभावेन सर्वत्र प्रवर्तनाद् जायते भवति अनघः परिशुद्ध इतिः समाप्तौ ।।१६।। अथैतद्विपर्ययमाह यथैव दृष्टान्ते विरुद्धसेविनश्चिकित्साकाले कुपथ्यसेविन आतुरस्य देहः शरीरं न नैव प्राणोति याति गुणम् आरोग्यलक्षणलाभं तथैव यतेरपि साधोरपि हुशब्दोऽवधारणे एतासु आहारोपधिशय्यास्वेव अव्यक्तव्रतः अव्यक्तान्यतिचारशबलानि व्रतानि यस्याऽसौ धर्मदेहः चारित्रकायो न नैव प्राप्नोति गुणं ज्ञानादिस्फातिम्। 'अवत्तचओ' इति पाठान्तरमाश्रित्याऽव्यक्तश्चयो व्रतानां तदाधारभूतज्ञानादीनां वा यस्य स धर्मदेहः शेषं पूर्ववत् । अथवाऽऽहारोपधिशय्यासु अयत्नवतः अयतनाशीलस्य धर्मदेहो न प्राप्नोति गुणमिति ।।२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148