Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 96
________________ [ ८५ विंशतिर्विशिकाः ] त्रयोदशी शुद्धभिक्षाविधिविंशिका त्रयोदशी शुद्धभिक्षाविधिविंशिका अनन्तरमेवोक्तं यथाऽऽहारोपधिशय्यासु यतेरयत्नवतो धर्मदेहो न प्राप्नोति गुणम् । अत्र विंशिकायां तु गुणप्राप्त्यर्थं शुद्धभिक्षाविधिमाह भिक्खाविही उ नेओ इमस्स एसो महाणुभावस्स। बायालदोसपरिसुद्धपिंडगहणं ति ते य इमे॥१॥ अक्षरगमनिका-एतस्य महानुभावस्य तु द्वाचत्वारिंशद्दोषपरिशुद्धपिण्डग्रहणमित्येष भिक्षाविधिज्ञेयस्ते चेमे-19॥ टीका-एतस्यानन्तरोक्तशिक्षाद्वयान्वितस्य महानुभावस्य परमतेजोलेश्याकस्य भावयतेरेव तु शब्दोऽवधारणे, तथा चानीदृशस्य व्यवच्छेदो बलादापद्यते, वाचत्वारिंशदोषपरिशुद्धपिण्डग्रहणं द्वाचत्वारिंशद् दोषा आधाकर्मादयस्तेभ्यः परिशुद्धो विनिर्मुक्तः पिण्डः अशनादिकस्तस्य ग्रहणमादानम् इति निर्देशे एष ग्रन्थकारहृदयस्थत्वात् प्रत्यक्षो भिक्षाविधिः अशनादिग्रहणविधानं मोक्षसाधनभूतस्य धर्मदेहस्य धारणार्थं निरवद्यो जिनोपदिष्टो ज्ञेयो बोद्धव्यः। यदागमः अहो जिनेहिं असावजा वित्ति साहूण देसिआ। मुक्खसाहणहेउस्स साहूदेहस्स धारणा ।।१।। ते चाऽऽधाकर्मादय इमेऽनन्तरं वक्ष्यमाणा उद्गमादिभेदभिन्ना बोद्धव्याः ।।१।। तथाहि सोलस उग्गमदोसा सोलस उप्पायणाइ दोसा उ। दस एसणाइ दोसा बायालीसं इय हवंति॥२॥ अक्षरगमनिका-उद्गमदोषाः षोडश षोडश तूत्पादनाया दोषा दशैषणाया दोषा एवं द्वाचत्वारिंशद् भवन्ति ॥२॥ टीका-उद्गमदोषाः साधूनाश्रित्य गृहस्थैर्विधीयमाना अशनादिनिष्पादनेऽपराधा आधाकर्मादयः सङ्ख्यया षोडश। तथा गणनया षोडशैव तुशब्दोऽवधारणे उत्पादनायाः पिण्डग्रहणे साधुभिरापाद्यमाना धात्र्यादयो दोषा अपराधा अपि। तथा दश सङ्ख्यया एषणायाः साधुगृहस्थोभयाभ्यां विधीयमानाः शङ्कितादयो दोषा अपराधाः। एवं सर्वमिलने गणनया दोषा बाचत्वारिंशद् भवन्ति जायन्ते ।।२।। अथोद्गमदोषानाह आहाकम्मुद्देसिय पूइकम्मे य मीसजाए य। ठवणा पाहुडियाए पाओयरकीयपामिचे ॥३॥ परियट्टिए अभिहडे उन्भिन्ने मालोहडे इइ यो। अच्छिज्जे अनिसिढे अझोयरए य सोलसमे ॥४॥ अक्षरगमनिका आधाकर्मोद्देशिकपूतिकर्म च मिश्रजातं स्थापना प्राभृतिका प्रादुष्करक्रीत Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148