Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ] त्रयोदशी शुद्धभिक्षाविधिविंशिका
[८६ संसट्ठमसंसट्ठा उद्धड तह होइ अप्पलेवा य।
ओग्गहियापग्गहिया उज्झियधम्मा य सत्तमिया ॥१३॥ अक्षरगमनिका-असंसृष्टा संसृष्टोद्धृताऽल्पलेपाऽवगृहीता प्रगृहीता तथोज्झितधर्मा च सप्तमिका भवति ।।१३।।
टीका-असंसृष्टा नाम प्रथमा पिण्डैषणा, तत्राऽसंसृष्टो हस्तः असंसृष्टं च मात्रकं, द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथापि गच्छस्य बालवृद्धग्लानाद्याकुलत्वात्तन्निषेधो नास्ति । अथ द्वितीया संसृष्टा पिण्डैषणा, तत्र संसृष्टो हस्तः संसृष्टं मात्रकं, शेषं पूर्ववत् । अथ तृतीया उद्धृता तत्र कैश्चित् श्रद्धालुभिर्गृहस्थैजिनेषु पूर्वमुक्षिप्तमशनादि स्यात्, शेषं पूर्ववत् । अथ चतुर्थी पिण्डैषणा अल्पलेपा सा यत्पुनः पृथुकं भुग्नतन्दुलवल्लचनकादि वाऽल्पलेपम् । अथ पञ्चमी पिण्डैषणा अवगृहीता तत्रोपहतं भोक्तुकामस्य भाजनस्थितमेव, शेषं पूर्ववत्। अथ षष्ठी पिण्डैषणा नाम प्रगृहीता तत्र स्वार्थं परार्थं वा पिठरकादेरुद्धृत्य चट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजिताय वा दापिता सा प्रकर्षण गृहीता तां तथाभूतां प्राभृतिकां पात्रस्थितां वा हस्तस्थितां वा जानीयात्, शेषं पूर्ववत्। तथा समुच्चये सप्तमी पिण्डैषणा उज्झितधर्मा यच्चान्ये द्विपदचतुष्पदश्रमणब्राह्मणातिथिकृपणवनीपका नावकाङ्क्षन्ति तथाप्रकारमुज्झितधर्मं भोजनजातम् शेषं पूर्ववत् । आसु सप्तस्वपि पिण्डैषणासु, संसृष्टाद्यष्ट भङ्गका ज्ञातव्याः, नवरं चतुर्थ्यां नानात्वम्, तच्च तस्यामल्पलेपत्वात् संसृष्टाद्यभाव इति। एवं पानैषणा अपि नेया भङ्गकाश्च योज्याः, नवरं चतुर्थ्यां नानात्वम् अल्पलेपत्वात्संसृष्टाद्यभाव इति पिण्डैषणावद् ज्ञेयमिति ।। १३॥ अथ वस्त्रैषणां नामनिर्देशमाह
उदिट्ट पेह अंतर उज्झियधम्मा चउत्थिया होइ।
वत्थे वि एसणाओ पन्नत्ता वीयरागेहिं ॥१४॥ अक्षरगमनिका—उद्दिष्टं प्रेक्षितम् अन्तरम् उज्झितधर्मा चतुर्थिका भवति । वस्त्रेऽपि एषणाः प्रज्ञप्ता वीतरागैः ।।१४॥
टीका-उद्दिष्टं प्राक् सङ्कल्पितं वस्त्रं याच्यते यतः सा प्रथमा प्रतिमा। तथा प्रेक्षितं दृष्टं सद् वस्त्रं यतो याच्यते सा द्वितीया। तथा अन्तरं वस्त्रान्तरं निवसिष्यमाणस्य मुक्तप्रायं वस्त्रं यतो याच्यते सा तृतीया। तथोज्झितधर्मा उत्सृष्टधार्मिकं वस्त्रं याच्यते यतः सा चतुर्थिका क्रमशश्चतुर्थी भवति वर्तते । एवमनन्तरोक्तरीत्याऽऽस्तामशनादिषु वस्त्रेऽपि निवसनेऽपि चतस्रो वस्त्रमिष्यते ज्ञायते शुद्धमशुद्धमाभिरिति एषणाः प्रज्ञप्ता निर्दिष्टा वीतरागैर्जिनेश्वरभगवद्भिरिति ।।१४॥ अथ शय्याविषयमाह
सिज्जा वि इहं नेया आहाकम्माइदोसरहिया वि।
ते वि दलाविक्खा इत्थं सयमेव जोइजा ॥१५॥ अक्षरगमनिका-शय्याऽपीह ज्ञेयाऽऽधाकर्मादिदोषरहिताऽपि। तानपि दलापेक्षयाऽत्र स्वयमेव योजयेत् ।।१५||
टीका-न केवलमशनपानादि शय्याऽपि प्रतिश्रयादिरूपसाधुवसतिरपि इह यतनाविषये ज्ञेया बोद्धव्या विं. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148