Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
६२ ] नवमी श्रावकधर्मविंशिका
[विंशतिर्विशिकाः तथा
बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे।
एमाइचित्तनासो संवेगरसायणं देयं ॥१६॥ अक्षरगमनिका-बाधकदोषविपक्षे उद्यतविहारे च धर्माचार्ये। एवमादिचित्तन्यासः संवेगरसायणं ददाति ।।
टीका-बाधकदोषविपक्षे बाध्यते च्याव्यते धर्मानुष्ठानात् पुरुषो यै रागादिदोषैस्तेषां विपक्षः प्रतिपक्षभावनारूपस्तत्र चित्तविन्यासः। तथाहि-रागः अनित्यभावनया. द्वेषो मैत्रीभावनया, क्रोधः क्षमया मानो मार्दवेन, मायाऽऽर्जवेन, लोभस्तष्टया, मोहश्च विवेकेन सुखं जीयत इत्यत्र चित्तन्यासः कर्तव्यः । तथा धर्माचार्ये सम्यक्त्वदातरि गुरौ कीदृशे ? उद्यतविहारे आगमानुसारिणीचर्यावति यदि वाऽऽत्मगते उद्यतविहारे चित्तविन्यासः,यथा—इच्छे वेयावडियं, गुरुमाईण महाणुभावाणं । जेसिं पभावेणेयं, पत्तं तह पालियं चेव ॥१॥ तेसिं नमो तेसिं, भावेण पुणो वि चेव तेसिं नमो। अणुक्कयपरहियरया, जे एवं देंति जीवाणं ।।२।। तथा—कइया होइ सो वासरो उ गीयस्थगुरुसमीवम्मि। सव्वविरई पवज्जिअ विहरिस्सामि अहं जम्मि ।।१।। एवमादिचित्तविन्यासः एवम् उक्तप्रकारेणादिपदात् स्वगतप्रमादनिन्दाग्रहस्तत्र चित्तन्यासः। एनमेव फलद्वारेणाह-संवेगरसायनं संवेगो भवनिर्वेदो मोक्षतीव्राभिलाषो वा स एव रसायनम् अजरामरत्वहेतुत्वात् तं ददाति प्रयच्छति । अयं भावः-अनन्तरोक्तचिन्तनतः संवेगो जायत इति ।।१६।। उपसंहरन्नाह
गोसे भणिओ य विही इय अणवरयं तु चिट्ठमाणस्स। पडिमाकमेण जायइ संपुत्रो चरणपरिणामो॥२०॥
___ इति श्रावकधर्मविंशिका नवमी ।।६।। अक्षरगमनिका—प्रातर्भणितश्च विधिः, एवमनवरतं तु चेष्टमानस्य प्रतिमाक्रमेण जायते चारित्रपरिणामः॥२०॥
टीका-प्रातः प्रत्युषसि भणितो निरूपित एव चोऽवधारणे विधिः श्रावकाणां विहितानुष्ठानलक्षणः । एवम् अनन्तरोक्तप्रकारेण अनवरतं सततमेव तुरवधारणे चेष्टमानस्य विदधानस्य प्रतिमाक्रमेण वक्ष्यमाणलक्षणेन जायते प्रादुर्भवति सम्पूर्णः अखण्डः चारित्रपरिणामः भवविरहबीजभूतः सर्वविरतिपरिणामः अत्रैव जन्मनि परभवे वा ।।।२०!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148