SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६२ ] नवमी श्रावकधर्मविंशिका [विंशतिर्विशिकाः तथा बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे। एमाइचित्तनासो संवेगरसायणं देयं ॥१६॥ अक्षरगमनिका-बाधकदोषविपक्षे उद्यतविहारे च धर्माचार्ये। एवमादिचित्तन्यासः संवेगरसायणं ददाति ।। टीका-बाधकदोषविपक्षे बाध्यते च्याव्यते धर्मानुष्ठानात् पुरुषो यै रागादिदोषैस्तेषां विपक्षः प्रतिपक्षभावनारूपस्तत्र चित्तविन्यासः। तथाहि-रागः अनित्यभावनया. द्वेषो मैत्रीभावनया, क्रोधः क्षमया मानो मार्दवेन, मायाऽऽर्जवेन, लोभस्तष्टया, मोहश्च विवेकेन सुखं जीयत इत्यत्र चित्तन्यासः कर्तव्यः । तथा धर्माचार्ये सम्यक्त्वदातरि गुरौ कीदृशे ? उद्यतविहारे आगमानुसारिणीचर्यावति यदि वाऽऽत्मगते उद्यतविहारे चित्तविन्यासः,यथा—इच्छे वेयावडियं, गुरुमाईण महाणुभावाणं । जेसिं पभावेणेयं, पत्तं तह पालियं चेव ॥१॥ तेसिं नमो तेसिं, भावेण पुणो वि चेव तेसिं नमो। अणुक्कयपरहियरया, जे एवं देंति जीवाणं ।।२।। तथा—कइया होइ सो वासरो उ गीयस्थगुरुसमीवम्मि। सव्वविरई पवज्जिअ विहरिस्सामि अहं जम्मि ।।१।। एवमादिचित्तविन्यासः एवम् उक्तप्रकारेणादिपदात् स्वगतप्रमादनिन्दाग्रहस्तत्र चित्तन्यासः। एनमेव फलद्वारेणाह-संवेगरसायनं संवेगो भवनिर्वेदो मोक्षतीव्राभिलाषो वा स एव रसायनम् अजरामरत्वहेतुत्वात् तं ददाति प्रयच्छति । अयं भावः-अनन्तरोक्तचिन्तनतः संवेगो जायत इति ।।१६।। उपसंहरन्नाह गोसे भणिओ य विही इय अणवरयं तु चिट्ठमाणस्स। पडिमाकमेण जायइ संपुत्रो चरणपरिणामो॥२०॥ ___ इति श्रावकधर्मविंशिका नवमी ।।६।। अक्षरगमनिका—प्रातर्भणितश्च विधिः, एवमनवरतं तु चेष्टमानस्य प्रतिमाक्रमेण जायते चारित्रपरिणामः॥२०॥ टीका-प्रातः प्रत्युषसि भणितो निरूपित एव चोऽवधारणे विधिः श्रावकाणां विहितानुष्ठानलक्षणः । एवम् अनन्तरोक्तप्रकारेण अनवरतं सततमेव तुरवधारणे चेष्टमानस्य विदधानस्य प्रतिमाक्रमेण वक्ष्यमाणलक्षणेन जायते प्रादुर्भवति सम्पूर्णः अखण्डः चारित्रपरिणामः भवविरहबीजभूतः सर्वविरतिपरिणामः अत्रैव जन्मनि परभवे वा ।।।२०! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy