________________
विंशतिर्विशिकाः ]
नवमी श्रावकधर्मविंशिका
[ ६१
टीका - अब्रह्मणि संभोगलक्षणे पुनर्विशेषे प्रायेण विरतिर्विरमणं दुरन्तकाम इति | मोहजुगुप्सा पुंवेदादिमोहनीयतिरस्कारः । यथा - यल्लज्जनीयमतिगोप्यमदर्शनीयं, बीभत्समुल्बणमलाविलपूतिगन्धि । तद् याचतेऽङ्गमिह कामकृमिस्तदेवं; किंवा दुनोति न मनोभववामता सा ॥ | १ || तथा स्वतत्त्वचिन्ता वस्तुतत्त्वचिन्ता, यथा शुद्धोऽहं बुद्धोहमित्यादिचिन्तनं चः समुच्चये यदि वा स्वतत्त्वचिन्ता च स्त्रीकलेवराणां स्त्रीशरीराणां सतताशुचिश्रावचिन्तनम् । तद्विरतेषु अब्रह्मविरतेषु जम्बूकुमारवज्रस्वामिस्थूलभद्रसुदर्शनश्रेष्ठिविजयविजयाप्रभृतिषु साधुसाध्वीश्रावकश्राविकासु बहुमानो भावप्रतिबन्धः । यथा - धन्यास्ते भुवि ये निवृत्तमदना धिग् दुःखितान् कामिनः । इत्यादि || १६ || पुनर्विधिविशेषमाह—
सुत्तविद्धस्स पुणो सुहुमपयत्थेसु चित्तविन्नासो । भवठिइनिरूवणे वा अहिगरणोदसमचित्ते वा ॥ १७ ॥
अक्षरगमनिका —— सुप्तविबुद्धस्य पुनश्चित्तविन्यासो सूक्ष्मपदार्थेषु भवस्थितिनिरूपणे वाऽधिकरणोपशमचित्ते वा ॥ १७॥
टीका — सुप्तविबुद्धस्य निद्रापगमे जाग्रतः श्रावकस्य पुनर्विशेषे चित्तविन्यासो मानसावेशनं चिन्तनमिति यावत् सूक्ष्मपदार्थेषु कर्मात्मपरिणामादिषु भवस्थितिनिरूपणे संसारदुःस्थताविचारणे वा तदुक्तं च-रङ्को राजा नृपो रङ्कः, स्वसा जाया जनी स्वसा । दुःखी सुखी सुखी दुःखी; यत्रासौ निर्गुणो भवः ॥ १॥ अधिकरणोपशमचित्ते वाऽधिकरणानि कलहाः कृष्यादीनि वा तेषामुपशमाय निवर्तनांय यच्चितं तत्तथा तत्र यथा कथं कदा वा मेऽधिकरणोपशमचित्तं भविष्यति, वाशब्दौ विकल्पार्थो ||१७|| चित्तविन्यासविषयमेवाह— आउयपरिहाणीए असमंजसचिट्ठियाण व विवागे । खणलाभदीवणाए धम्मगुणेसुं च विविहेसु ॥ १८ ॥
अक्षरगमनिका — आयुः परिहाणौ असमञ्जसचेष्टितानां वा विपाके क्षणलाभदीपनायां धर्मगुणेषु च विविधेषु चित्तविन्यासः ॥ १८ ॥
टीका - आयुः परिहाणौ प्रतिक्षणमावीचिमरणेनाऽऽयुष्कक्षयलक्षणायां चित्तविन्यास इति सर्व योज्यम्, असमञ्जसचेष्टितानां वा विपाके असदाचरितानां प्राणातिपातादीनां वा विपाके नरकादिदारुणदुःखफलदायके चित्तविन्यासः । तथा क्षणलाभदीपनायां क्षणः सुषमाद्यपेक्षया दुःषमायामायुष्कालः स्तोकस्तस्मिन् यः अद्भुत आराधनालाभः अशुभकर्मनिर्जराविपुलपुण्यानुबन्धिपुण्योपार्जनलक्षणस्तस्य दीपना प्रकाशना यथाऽल्पकालिकी साधना सार्बदिकं च सुखमिति प्रमादो न श्रेयसे, यदि वा तडिल्लतेव दुर्लभः क्षणः अवसरो मोक्षसाधनायास्तस्य लाभो युगशमिलान्यायेन कष्टात् प्राप्तिस्तस्य दीपना पूर्ववत् तस्यां चित्तविन्यासः । यथोक्तम्
माणुस्सखेत्तं जाई कुलरूवारोगआउयं बुद्धी । सवणोग्गहसद्धा संजमो य लोगम्मि दुलहाई ॥१॥ धर्मगुणेषु ज्ञानादिगुणेषु च विविधेषु बहुप्रकारेषु यथाऽत्र जन्मनि निर्मलयशः प्राप्तिः प्रेत्य धर्मावाप्तिस्ततः स्वर्गः अपवर्गश्च तत्र चित्तविन्यासः । यदुक्तं च
जीवंतस्स इह जसो, कित्ती य मयस्स परभवे धम्मो ।
सगुणस्स निग्गुणस्स य, अयसोऽकित्ती अहम्मो अ || १ ||१८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org