________________
nanaanaamananewwwanmomanam
६० ] नवमी श्रावकधर्मविंशिका
[विंशतिर्विंशिकाः प्रवेशविधिस्तु “सचित्तदव्वाणं विउसरणाए" इत्यादि पञ्चाभिगमपूर्वकम्। सत्कारो जिनेन्द्रप्रतिमायाः पुष्पाद्याभूषणैः पूजा। वन्दनं प्रसिद्धविधिना चैत्यवन्दनम्। ततो गुरुसकाशे सुविहिताचार्यादिपार्धे प्रतिश्रयादौ गमनं द्वादशावर्तादिवन्दनपूर्वं च प्रत्याख्यानं स्वयंगृहीतस्य नमस्कारसहितादेः पुनर्गुरुसमक्षविधानम् । ततः श्रवणम् आकर्णनं श्रीजिनागमस्य सद्बोधहेतुरिति। ततो यतिपृच्छा साधुशरीरसंयमयात्रानिर्वाहपृच्छनम् । तत्र चोचितकरणीयं विहितकर्तव्यं साधोग्लनित्वादौ वैद्याऽऽकारणौषधप्रदानादि विधेयमिति ।।१३।। किञ्च
अविरुद्धो ववहारो काले विहिभोयणं च संवरणं।
चेहरागमसवणं सक्कारो वंदणाई य॥१४॥ अक्षरगमनिका-अविरुद्धो व्यवहारः काले विधिभोजनं च संवरणं चैत्यगृहागमश्रवणं सत्कारो वन्दनादि च ।।१४॥
टीका-अविरुद्धो व्यवहारः पञ्चदशकर्मादानवर्जनेन राजजातिकुलदेशाद्यविरुद्धाल्पारम्भिका वृत्तिः, अन्यथा धर्मबाधा प्रवचनहीलना च स्यादिति। काले मध्याह्ने देहारोग्याद्यनुगुणे वा प्रत्याख्याततीरितत्वसमयलक्षणे वा विधिभोजनं विधिनाऽभ्यवहरणम् । तद्विधिश्चायं-जिणपूयोचितदाणं परियरसंभालणा उचियकिच्चं । ठाणुववेसो य तहा पच्चक्खाणस्स संभरणं ।।१।। चः समुच्चये संवरणं भोजनानन्तरं त्रिविधाद्याहारग्रन्थिमुष्टिसहितादिप्रत्याख्यानं प्रमादपरिहारफलं विधेयम् । ततोऽवसरे चैत्यगृहे जिनालये आगमश्रवणं जिनागमाकर्णनं चैत्यगृहे हि प्राग् आगमव्याख्यानमभवदिति आगमव्याख्यानस्थानान्तरोपलक्षणार्थं चैत्यग्रहणम्, यदाह-जत्थ पुण अनिस्सकडं पूरिति तहिं समोसरणं। पूरिति समोसरणं अन्नासइ निस्सचेइएसुंपि। इहरा लोगविरुद्धं सद्धाभंगो य सड्डाणं ||१|| ततो विकाले सत्कारः पूजा वन्दनादि च जिनेन्द्रप्रतिमानामेव आदिशब्दा चैत्यसम्बन्धितत्कालोचितं कृत्यान्तरं ग्राह्यं प्रतिश्रयागमनं साधुवन्दनादि भूमिकौचित्येन षड्विधावश्यकं चः समुच्चये ||१४|| अपि च
जइविस्सामणमुचिओ जोगो नवकारचिंतणाईओ।..
गिहिगमणं विहिसुवणं सरणं गुरुदेवयाईणं ॥१५॥ अक्षरगमनिका यतिविश्रामणमुचितो योगो नमस्कारचिन्तनादिको गृहगमनं विधिस्वपनं स्मरणं गुरुदेवतादीनाम् ।।१५।।
टीका-सन्ध्याप्रतिक्रमणानन्तरं यतिविश्रामणं साधुशरीरसम्बाधनमेवं विनयप्रतिपत्तिरपि स्यादिति उचितः स्वभूमिकायोग्यो योगो धर्मव्यापारस्तमेवाह-नमस्कारचिन्तनादिकः पञ्चपरमेष्ठिनमस्कारप्रकरणग्रन्थादिपरावर्तनादिलक्षणस्वाध्यायप्रभृतिकः । ततो गृहगमनं स्ववेश्मगमनं तत्र चौचित्येन स्वजनादिभ्यो धर्मोपदेशदानम् ततो विधिस्वपनं शयनक्रियाविधिमेवाह—स्मरणं मनसि धारणम्, केषां ?गुरुदेवतादीनां गुरुणां धर्मदायकानां देवतानां चार्हत्सिद्धानाम् आदिशब्दादन्येषां च धर्मोपकारकाणां प्रत्याख्यानादीनां च यदि वा शरणं गमनं गुरुदेवतादीन् णं च वाक्यालङ्कार इति ।।१५।। तथा
अब्बंभे पुण विरई मोहदुगुंछा सतत्तचिंता य।
इत्थीकलेवराणं तविरएसुं च बहुमाणो॥१६॥ अक्षरगमनिका-अब्रह्मणि पुनर्विरतिः, मोहजुगुप्सा स्वतत्त्वचिन्ता च स्त्रीकलेवराणां तद्विरतेषु च बहुमानः ।।१६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org