SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिका: ] नवमी श्रावकधर्मविंशिका [ ५६ प्रादुर्भवति जातोऽपि प्रादुर्भूतोऽपि न नैव पतति भ्रंशते कदाचित् कस्मिन्नपि काले तस्मात् कारणाद् अत्र नित्यस्मृत्यादौ बुद्धिमता मतिमताऽप्रमाद उद्यमो भवति युज्यते कर्तव्यो विधातव्य इति ||१०|| योगक्षेमार्थं विधिविशेषमाह अथ निवसिज्ज तत्थ सडूढो साहूणं जत्थ होइ संपाओ । चेइयघरा उ जहियं तदन्नसाहम्मिया चेव ॥११॥ अक्षरगमनिका — निवसेत्तत्र श्राद्धः यत्र साधूनां भवति सम्पातश्चैत्यगृहाणि तु यस्मिन् तदन्यसाधर्मिकाश्च ॥ ११ ॥ टीका — अप्राप्तकुशलपरिणामस्य प्राप्त्यर्थं प्राप्तस्य च संरक्षणार्थं निवसेद् आवसेत् तत्र ग्रामनगरादौ श्राद्धः श्रमणोपासको यत्र निवासस्थाने साधूनां यतीनां भवति जायते सम्पात आगमनं तत एव सदुपदेशादिप्राप्तिरिति चैत्यगृहाणि श्रीजिनभवनानि पुनर्यस्मिन् ग्रामनगरादौ स्युः तुः पुनरर्थे तत एव साधूनामागमनमिति तथा तदन्यसाधर्मिकाश्चः स्वव्यतिरिक्तान्यसमानधार्मिकाश्च श्रावका यत्र निवसेयुस्तत एव प्रमादादिपरिहारेण वंशजालमध्यस्थछिन्नमूलस्यापि वंशस्येव स्थितिस्थापकता । उक्तं च उड्डगुणेहिं तुल्लगुणेहिं च णिच्च संवासो । तग्गुणठाणोचियकिरियापालणसइ समाउत्तो || १ || ( योगशतक गा. ४४) ।। ११ ।। साम्प्रतं दिनकर्तव्यतामाह नवकारेण विबोहो अणुसरणं सावओ वयाई मे । जोगो चिइवंदणमो पच्चक्खाणं तु विहिपुव्वं ॥ १२ ॥ अक्षरगमनिका — नमस्कारेण विबोधः अनुस्मरणं श्रावको व्रतानि मे योगस्तु विधिपूर्वं चैत्यवन्दनं प्रत्याख्यानं || १२ | टीका नमस्कारेण पञ्चपरमेष्ठिनमस्कारक्रियालक्षणमहामन्त्रेण परममङ्गलत्वात्तस्येति विबोधो जागरणं निद्रात्याग इति यावत् ततः अनुस्मरणं चिन्तनं यथा श्रावकः श्राद्धोहं व्रतानि मेऽमुकानि प्राणातिपातविरमणादीनि नियमाश्चोपलक्षणं चैतद् जातिकुलदेवगुरुधर्मद्रव्यक्षेत्रकालभावादिचिन्तनस्य ततो योगो व्यापारो मलमूत्राद्युत्सर्गशौचादिलक्षणो भावबाधापरिहारेण चित्तसमाधिहेतुत्वाद् यदिवा योगो धर्मव्यापारस्त -. मेवाह विधिपूर्वं जिनगणधरोक्तविधानपुरस्सरं चैत्यवन्दनं गृहचैत्ये पूजापुरस्सरं जिनेन्द्रबिम्बवन्दनं तथा तत्रैवाऽऽकारोच्चारणपूर्वं प्रत्याख्यानं नमस्कारसहितादिकं विधेयं तुः पुनरर्थे । आवश्यकं तु स्वभूमिकानुसारेणाऽवश्यकर्तव्यतया चैत्यवन्दनादिना गतार्थत्वादनुक्तमपि ग्राह्यमिति || १२|| दिनकृत्यमेवाहतह चेईहरगमणं सक्कारो वंदणं गुरुसगासे । पञ्चक्खाणं सवणं जइपुच्छा उचियकरणिज्जं ॥ १३ ॥ अक्षरगमनिका - तथा चैत्यगृहगमनं सत्कारो वन्दनं गुरुसकाशे प्रत्याख्यानं श्रवणं यतिपृच्छोचितकरणीयम् ।। १३ ।। Jain Education International टीका - तथा समुच्चये चैत्यगृहगमनं श्रीसंघजिनालये गमनं यानम् तत्र गमनविधि :- " सव्वाए इड्डिए सव्वाए दित्तीए सव्वाए जुत्तीए सव्वसमुदएणं" इत्यादि समुचिताडम्बरेण प्रवचनप्रभावनाहेतुत्वात् । For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy