SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५८] नवमी श्रावकधर्मविंशिका [विंशतिर्विशिकाः एसो ठिइओ इत्थं न उ गहणादेव जायई नियमा। गहणोवरिं पि जायइ जाओ वि अवेइ कम्मुदया ॥७॥ अक्षरगमनिका-एष स्थितित इत्थं न तु ग्रहणादेव नियमाज्जायते, ग्रहणोपर्यपि जायते, जातोऽपि कर्मोदयादपैति ।।७।। टीका-एष द्वादशधा श्रावकधःस्थितितो मर्यादातो व्यवहारत इति यावद् इत्थम् उक्तन्यायेन विधिग्रहणादिभिर्यतो न नैव तुरवधारणे ग्रहणादेव गुरुसकाशे स्वीकारमात्रादेव नियमादवश्यं परिणामरूपेण जायत आविर्भवति। ग्रहणोपर्यपि स्वीकारादूर्ध्वमपि जायते प्रकटति प्रयत्नपूर्वकपरिपालनात् । अतः अत्रोद्यमो भवति कर्तव्यः। उद्यमे सत्यपि निकाचितकर्मोदये प्रतिपततीत्याह—जातोऽपि आविर्भूतोऽपि विरतिपरिणामःकर्मोदयात् तथाविधाऽप्रत्याख्यानावरणीयकषायोदयाद् अपैति-प्रतिपततीति ।।७।। यत एवम् तम्हा निचसईए बहुमाणेणं च अहिगयगुणमि। पडिवक्खदुगुंछाए परिणइयालोयणेणं च॥८॥ तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य। उत्तरगुणसद्धाए इत्थ सया होइ जइयव्वं ॥६॥ अक्षरगमनिका तस्मान्नित्यस्मृत्याऽधिकृतगुणे च बहुमानेन, प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च ||८|| तीर्थंकरभक्त्या , सुसाधुजनपर्युपासनयोत्तरगुणश्रद्धया चात्र सदा भवति यतितव्यम् ।।६।। टीका-यस्मात् कर्मोदयादाविर्भूतोऽपि कुशलपरिणामरूपः श्रावकधर्मः अपैति तस्मात् कारणात् गृहीताऽणुव्रतादेर्नित्यस्मृत्या सदा स्मरणेन यथा कर्मविवरेण प्रापितोहमियती भुवं पुनर्मा पप्तमिति, तथाऽघि कृतगुणे स्वीकृतसम्यक्त्वादिविरतिधर्मे बहुमानेन भावप्रतिबन्धेन प्राप्तगुणः सानुबन्धः स्यादिति, किञ्चप्रतिपक्षजुगुप्सया मिथ्यात्वाऽविरत्याधुद्विग्नतया पापप्रवृत्तिप्रतिरोधो भवेदिति, तथा परिणत्यालोचनेन मिथ्यात्वप्राणातिपातादिविपाकः परलोके नारकादिदारुणदुःखोपनिपातः सम्यक्त्वव्रतानि चाशुभभावनिरोधात् परमार्थहतव इति विपाकविचारणया पापविचारोऽपि विरमेदिति, तथा तीर्थङ्करभक्त्याऽनुपकृतपरहितरतश्रीजिनेश्वरविषये तद्गुणज्ञानपूर्वं विनयोपचारेण पापविचारहेतुमोहनीयकर्माऽपि क्षयं यायादिति, अपि चसुसाधुजनपर्युपासनया भावयोगिषु वैयावृत्त्येन सदुपदेशादितः प्राप्तगुणः स्थैर्य वृद्धिं च प्राप्नुयादिति, तथोत्तरगुणश्रद्धया चाधिकृतसम्यक्त्वदेशविरत्याद्यपेक्षयोत्तरगुणः देशविरतिसर्वविरत्यादिकस्तदभिलाषरूपाऽऽदरेण तथाहि-सम्यक्त्वे सति अणुव्रतलिप्सयाऽणुव्रतेषु सत्सु महाव्रताभिलाषया तत्प्राप्तिरिह जन्मनि भाविभवेषु वा स्यादिति अत्र नित्यस्मृत्यादौ सदाऽनवरतं यतितव्यम् अभ्यसितव्यं भवति युज्यते ।।८-६।। एतत्फलनिरूपणपूर्वमुपदिशन्नाह एवमसंतो वि इमो जायइ जाओ वि न पडइ कयाइ। ता इत्थं बुद्धिमया अपमाओ होइ कायवो॥१०॥ __ अक्षरगमनिका-एवमसन्नप्ययं जायते, जातोऽपि न पतति कदाचित् तस्मादत्र बुद्धिमताऽप्रमादो भवति कर्तव्यः ।।१०।। टीका-एवम् अनन्तरोक्तनित्यस्मृत्यादितः असन्नपि अविद्यमानोऽपि अयं कुशलपरिणामो जायते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy