SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] नवमी श्रावकधर्मविंशिका [ ५७ एसो य सुप्पसिद्धो सहाइयारेहिं इत्थ तंतम्मि। कुसलपरिणामरूवो नवरं सइ अंतरो नेओ॥४॥ अक्षरगमनिका-एषः अतिचारैः सहात्र तन्त्रे सुप्रसिद्धः, कुशलपरिणामरूपो नवरं सदाऽऽन्तरो ज्ञेयः ॥४॥ टीका---एषः अनन्तरोक्तो द्वादशधा श्रावकधर्मो निवृत्तिप्रवृत्तिलक्षणो निरतिचारपालनार्थम् अतिचारैर्वधबन्धच्छविच्छेदादिभिः परिहाररूपेण ज्ञातव्यैःसह सार्धम् अत्र अस्मिन् मौनीन्द्रे तन्ने सिद्धान्ते सुप्रसिद्धः अतीव प्रतीतः। अथ निश्चयनयाभिप्रायेणाह-नवरं केवलं रागादिमलक्षयात् कुशलपरिणामरूपः शुभाध्यवसायलक्षणः सदाऽनवरतम् आन्तरः आध्यात्मिकः सर्वविरतिप्रतिबन्धककर्मक्षयङ्करत्वात् सर्वत्यागपरिणामाविर्भावकत्वाच्च भावश्रावकधर्मो ज्ञेयः समवसेय इति ।।४॥ कालमाश्रित्यैष कुशलपरिणामरूपो भावश्रावकधर्मः कदाऽऽविर्भवति? तदाह सम्मा पलिय हुत्तेऽवगए कम्माण एस होइ त्ति सो वि खलु अवगमो इह विहिगहणाईहिं होइ जहा ॥५॥ __ अक्षरगमनिका सम्यक्त्वात् कर्मणां पल्यपृथकत्वेऽपगते एष भवतीति सोऽपि खल्वपगम इह यथा विधिग्रहणादिभिर्भवति ॥५॥ टीका-सम्यक्त्वात् भीमो भीमसेन इति न्यायात् सम्यक्त्वप्राप्तेरूर्ध्वं कर्मणां स्थितिस्थितिमतोरभेदोपचाराद् ज्ञानावरणीयप्रभृतिघातिकर्मणां पल्यपृथकत्वे द्विप्रभृतिनवपर्यन्तसमयप्रसिद्धपल्योपमकालप्रमाणस्थितेः अपगते क्षये सति एषः अनन्तरोक्तकुशलपरिणामरूपो भावश्रावकधर्मो भवति प्रादुर्भवति, इतिः समाप्तौ। सोऽपि कर्मणाम् अपगमः क्षय इह मौनीन्द्रप्रवचने यथा श्रीजिनवरगणधरैरुपदिष्टं तथा विधिग्रहणादिभिः गुरुसकाशाद् विधिना श्रावकधर्मस्य ग्रहणपालनादिभिर्भवति जायते। इदमुक्तं भवतिअनन्तरोक्तकुशलपरिणामं विनाऽपि विधिना देशविरतिग्रहणपालनादिभिरपि घातिकर्मक्षयाद् देशविरतिपरिणामः प्रादुर्भवतीति ॥५|| एतदेवाह गुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा। . गिण्हइ वयाई कोइ पालइ य तहा निरइयारं ॥६॥ अक्षरगमनिका गुरुमूले श्रुतधर्मः कोऽपि संविग्न इत्वरं वेतरं वा गृह्णाति व्रतानि पालयति च तथा निरतिचारम् ।।६।। . टीका-गुरुमूले गुरुः संविग्नगीतार्थस्तस्य मूले पार्थे, उक्तं च-गुरुर्गृहीतशास्त्रार्थः परां निसङ्गतां गतः। मार्तण्डमण्डलसमो भव्याम्भोजविकाशने ।।9। गुणानां पालनं चैव तथा वृद्धिश्च जायते। यस्मात्सदैव स गुरुभवकान्तारनायकः ।।२।। श्रुतधर्म आकर्णितः प्रथमतो यतिधर्मस्तत्करणेऽसमर्थः पश्चात् श्रावकधर्मः कोऽपि भव्यसत्त्वः संविग्नस्तीव्रमोक्षाभिलाषी भवोद्विग्नो वा सन् इत्वरं चातुर्मासकादिरूपं शिक्षाव्रतानि वा विकल्पे इत्वरं यावज्जीवं प्रायः अणुगुणव्रतानि गृह्णाति स्वीकरोति व्रतानि पूर्वोक्तरूपाणि तदूर्ध्वं पालयति निर्वहति चः समुच्चये यथा गृहीतानि तथा निरतिचारम् अक्षुण्णमनुतिष्ठतीति ॥६॥ एवं विधिग्रहणादिभिरपि देशविरतिपरिणामो जायते न तु नियमादित्याहविं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy