________________
विंशतिर्विशिकाः ]
दशमी श्रावकप्रतिमाविंशिका
दशमी श्रावकप्रतिमाविंशिका
अनन्तरविंशिकायां यदुक्तं प्रतिमाक्रमेण जायते सम्पूर्णश्चारित्रपरिणाम इत्यत्र विंशिकायां श्रावकप्रतिमा निरूप्यन्ते । तत्र प्रतिमानामनिर्देशिकाऽऽद्या गाथेयम्
दंसणवयसामाइयपोसहपडिमा अबंभसच्चित्ते । आरंभपेस उद्दिवज्जए समणभूए य ॥१॥
अक्षरगमनिका दर्शन-व्रत-सामायिक - पौषध-प्रतिमाऽब्रह्म-सचित्ताऽऽरम्भ-प्रैष्योद्दिष्टवर्जकः श्रमणभूतश्च || १ ||
टीका - दर्शनं सम्यग्दर्शनं, व्रतानि चाऽणुव्रतगुणव्रतादीनि, सामायिकं च समतासाधनं सावद्येतरयोगनिवृत्तिप्रवृत्तिलक्षणं, पौषधं चाऽष्टमीचतुर्दश्यादिदिनविधेयोपवासादि, प्रतिमा च कायोत्सर्गः, एतद्विषयकप्रतिमेति सर्वत्र योज्यम् । एताश्च पञ्चाऽपि प्रतिमा विधेयत्वाद् विधिरूपा अवसेयाः । अतः परं पञ्च प्रतिमास्तत्तद्विषयवर्जनान्निषेधरूपा ज्ञातव्याः, तथाहि — अब्रह्म चाऽब्रह्मचर्यं सचित्तं सचेतनद्रव्यमिति समाहारद्वन्द्वाद् अब्रह्मसचित्तम्, आरम्भश्च स्वयं कृषिवाणिज्यादिकरणं, प्रैषश्च प्रैष्यद्वारा कृष्यादिकारणम्, उद्दिष्टं चात्मानमुद्दिश्य सचित्तं सदचित्तीकृतं पक्वं वा यो वर्जयति सः अब्रह्मसचित्ताऽऽरम्भप्रैषोद्दिष्टवर्जकः प्रतिमा, प्रतिमाप्रतिमावतोरभेदोपचाराद् एतद्वर्जनविषयाः प्रतिमाः समवसेयाः । एवमुत्तरत्रापि भावनीयम् । तथा–श्रमणः साधुः स इव यः स श्रमणभूतः चः समुच्चये । सर्वत्र दर्शनव्रतादिपदेषु प्रतिमाशब्दो योज्यः, तथा च दर्शनप्रधाना प्रतिमा दर्शनप्रतिमा । एवमेव व्रतप्रधाना व्रतप्रतिमा । एवमुत्तरत्रापि नेयम् ||१|| अथासां ज्ञानोपायमाह
Jain Education International
एया खलु इक्कारस गुणठाणगभेयओ मुणेयव्वा । समणोवासगपडिमा बज्झाणुट्ठाणलिंगेहिं ॥२॥
[ ६३
अक्षरगमनिका — एताः खल्वेकादश गुणस्थानकभेदतो बाह्यानुष्ठानलिङ्गैः श्रमणोपासकप्रतिमा मुणितव्याः ॥ २॥
टीका- - एता अनन्तरोक्ता एव खलुरवधारणे एकादश सङ्ख्यया श्रमणोपासकप्रतिमा ज्ञातव्या इति सम्बन्धः । गुणस्थानक भेदतो देशविरतस्यैकमेव पञ्चमगुणस्थानं तथापि तदपान्तरालभूमिकापेक्षया प्रतिमाक्रमेण वा विशुद्धितारतम्यसूचका वा क्रमश आत्मोत्थानसूचका भेदास्तैः, बाह्यानुष्ठानलिङ्गैश्च बाह्यैस्तत्तत्प्रतिमायोग्यैर्वक्ष्यमाणैः शुश्रूषादिभिर्लिङ्गैश्चित्रैः श्रमणोपासकप्रतिमाः श्रमणोपासकः श्रावकस्तस्य प्रतिमाः प्रतिज्ञा अभिग्रहविशेषा इति यावद् मुणितव्या बोद्धव्या इति ॥ २ ॥ एतदेवाह —
सुस्सूसाई जम्हा दंसणपमुहाण कज्जसूय त्ति ।
कायकिरियाइ सम्मं लकुक्खिज्जइ ओहओ पडिमा ॥३॥
अक्षरगमनिका —— यस्मात् शुश्रूषादय ओघतो दर्शनप्रमुखाणां कार्यसूचका इति कायक्रियया सम्यग् लक्ष्यते प्रतिमा || ३ ॥
टीका — यस्मात् कारणात् शुश्रूषादयः श्रवणेच्छाधर्मरागादय ओघतः सामान्येन दर्शनप्रमुखाणां
For Private & Personal Use Only
www.jainelibrary.org