SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६४ ] दशमी श्रावकप्रतिमाविंशिका [ विंशतिर्विशिकाः सम्यग्दर्शनव्रतादीनां कार्यसूचकाः फलाभिव्यञ्जका इति हेतोः कायक्रियया तत्त्व श्रवणदेवगुर्वादिवैयावृत्यादिलक्षणया देहचेष्टया सम्यक् समीचीनतया लक्ष्यते ज्ञायते प्रतिमा पूर्वोक्तस्वरूपा दर्शनादिकेति । अत एव प्रतिमापञ्चाशके बोन्दी प्रतिमेत्युक्तं बोन्दीहेतुकत्वात् क्रियाभिव्यड्यानाम् प्रतिमागुणानामिति ॥ ३॥ अथ दर्शनप्रतिमामाह सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए। वेयावच्चे नियमो दंसणपडिमा भवे एसा ॥४॥ अक्षरगमनिका —— शुश्रूषा धर्मरागो यथासमाधिना गुरुदेवानां वैयावृत्त्ये नियमो दर्शनप्रतिना भवेदेषा ॥ ४ ॥ टीका — ग्रन्थिभेदेन तत्त्वे तीव्रभावात् शुश्रूषा तत्त्वत्श्रवणेच्छा तथा धर्मरागोऽहिंसालक्षणे धर्मे चेतसोऽनुबन्धः। तथा यथासमाधिना शक्त्यनुरूपं यथा समाधिव्याघातो न स्यात्तथा गुरुदेवानां चैत्यसाधूनाम् देवस्वरूपप्रकाशकत्वाद् विवक्षया गुरूणां पूज्यतरत्वख्यापनार्थं गुरुपदस्य पूर्वनिपातो वैयावृत्त्ये व्यावृत्तकर्मणि प्रतिपत्तिविश्रामणादिसेवायामिति यावद् नियमः अवश्यकर्तव्यतया स्वीकारो दर्शनप्रतिमा दर्शनं प्रशमादिगुणसम्यग्दर्शनं तस्य प्रतिमा पालनाभिग्रहो यावदेकमासं भवेद् जायेत एषा प्रथमा दर्शनप्रतिमा । इदं त्वत्र ध्येयम् प्रतिमास्वीकारतः प्रागपि श्रावकस्य दर्शनमोहनीयकर्मक्षयोपशमात् सम्यक्त्वं भवत्येव तथापि प्रतिमाराधनकाले शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारपालनाभ्युपगमेन च प्रतिमात्वं संभाव्यते । तदुक्तं च सम्मदंसणसंकाईसल्लपामुक्कसंजुओ जो जन्तु । सगुणविप्पको एसा खलु होइ पढमा उ || १ || ( उपासकदशावृत्तौ ) अथ द्वितीयामाह - पंचाणुव्वयधारित्तमणइयारं वएसु पडिबंधो। वयणा तदणइयारा वयपडिमा सुप्पसिद्ध त्ति ॥५॥ अक्षरगमनिका ——–अनतिचारं पञ्चाणुव्रतधारित्वं व्रतेषु प्रतिबन्धो वचनात्तदनतिचाराद् व्रतप्रतिमा सुप्रसिद्धेति ॥५॥ टीका - अनतिचारं वधबन्धादिसुप्रतीतातिचाराणां वर्जनं महता प्रयत्नेन यथा स्यात्तथा पञ्चाणुव्रतधारित्वं स्थूलप्राणातिपातादिविरमणनिर्वाहकत्वं तथा व्रतेषु स्थूलप्राणातिषातादिविरमणरूपेष्वेव प्रतिबन्ध उत्तरगुणबहुमानपूर्विका प्रीतिः, वचनात् श्रीजिनोक्तात् तदनतिचाराद् व्रतविषयकातिचाराभावाच्च व्रतप्रतिमा व्रतप्रधाना द्वितीया श्रावकप्रतिमा सुप्रसिद्धा सुप्रतीता । अयं विशेष : अस्यां प्रतिमायां प्रथमप्रतिमोक्तमनुष्ठानं निरवशेषमपि कर्तव्यम् । तदुक्तं चोपासकदशावृत्तौ - दंसणपडिमाजुत्ता पालेन्तोऽणुव्व निरइयारे । अणुकंपाइगुणजुओ जीवो इह होई वयपडिमा || १ || तृतीयायां तु प्रतिमायां प्रथमाद्वितीयाप्रतिमाद्वयोक्तमप्यनुष्ठानं विधेयम्, एवं यावदेकादश्यां पूर्वप्रतिमादशकोक्तं सर्वमप्यनुष्ठानं करणीयमिति । तथा प्रथमप्रतिमायां कालमानमेको मास उक्तमेव । अस्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy